SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. ॥३२२॥ ममायं रिपुदारणः॥ ३॥ न कार्य मे ततोऽनेन, पुत्रेणापि दुरात्मना । एवं विचिन्त्य तातेन, कृतश्चित्ते विनिश्चयः ॥ ४ ॥ ततोऽवधीरितस्तेन, भवनाच्च बहिष्कृतः । भ्रष्टश्रीकः पुरे तत्र, विचरामि सुदुःखितः ॥ ५॥ स्वदुष्टचेष्टितेनैव, बालानामपि सर्वथा । गम्यश्चाहं तदा जातस्ततश्चैवं विगर्हितः ॥ ६॥ पापोऽयं दुष्टचेष्टोऽयमद्रष्टव्यो विमूढधीः । कुलकण्टकभूतोऽयं, सर्वथा विषपुजकः ॥ ७ ॥ मानावलेपनाद् येन, कलाचार्योऽपकर्णितः । मूर्खचूडामणित्वेऽपि, पाण्डियं च प्रकाशितम् ॥ ८॥ माता च प्रियभार्या च, येन मानेन मारिता । को वा निरीक्षते पापं, तमेनं रिपुदारणम् ? ॥ ९॥ उक्तमेवेदमस्माभिर्नोचिताऽस्य दुरात्मनः । सा कलाकौशलादीनां, खानिर्या नरसुन्दरी ।। १० ।। ततश्च-वियुक्तो नरसुन्दा , यदयं तच्च सुन्दरम् । किं तु सा पद्मपत्राक्षी, यन्मृता तन्न सुन्दरम् ॥ ११ ॥ अहं पुनर्महामोहलुप्तज्ञानः स्वचेतसा । तदापि चिन्तयाम्येवं, भद्रे विमललोचने! ॥ १२ ॥ त्यक्तस्यापीह तातेन, निन्दितस्यापि दुर्जनैः । शैलराजमृषावादौ, तथापि मम बान्धवौ ॥ १३ ॥ अनयोर्हि प्रसादेन, भुक्तपूर्व मया फलम् । भोक्ष्ये च कालमासाद्य, पुनर्नास्त्यत्र संशयः ॥ १४ ॥ ततश्चैवं जनेनोचैर्निन्द्यमानः क्षणे क्षणे । स्थितोऽहं भूरिवर्षाणि, दुःखसागरमध्यगः ॥ १५ ॥ इतश्च–अत्यन्तदुर्बलीभूतः, सकोपो मयि निस्फुरः । स तु पुण्योदयो भद्रे!, स्थितोऽकिञ्चित्करस्तदा ॥ १६ ॥ अथान्यदा कचिद्राजा, वाहनार्थ सुवाजिनाम् । वेष्टितो राजवृन्देन, निर्गतो नगरादहिः ॥ १७ ॥ ततः कुतूहलाकृष्टः, सर्वो नागरको जनः । तत्रैव निर्गतोऽहं च, संप्राप्तस्तस्य मध्यगः | ॥ १८ ॥ अथ वाल्हीककाम्बोजतुरुष्कवरवाजिनः । वाहयित्वा भृशं राजा, राजलोकविलोकितः ॥ १९ ॥ ततः खेदविनोदार्थमुद्यानं सुमनोहरम् । प्रविष्टः सह लोकेन, ललितं नाम शीतलम् ॥ २०॥ तच्च कीदृशम् ?-अशोकनागपुन्नागतालहिन्तालराजितम् । प्रियङ्गुViचम्पकाङ्कोल्लकदलीवनसुन्दरम् ॥ २१ ॥ केतकीकुसुमामोदहृष्टालिकुलमालितम् । समस्तगुणसंपूर्ण, सर्वथा नन्दनोपमम् ॥ २२ ॥ युग्मम् । विचक्षण सूर्यागमनं ॥३२२॥ Jain Education ana For Private & Personel Use Only KMjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy