________________
उपमितौ च. ४-प्र.
॥३२२॥
ममायं रिपुदारणः॥ ३॥ न कार्य मे ततोऽनेन, पुत्रेणापि दुरात्मना । एवं विचिन्त्य तातेन, कृतश्चित्ते विनिश्चयः ॥ ४ ॥ ततोऽवधीरितस्तेन, भवनाच्च बहिष्कृतः । भ्रष्टश्रीकः पुरे तत्र, विचरामि सुदुःखितः ॥ ५॥ स्वदुष्टचेष्टितेनैव, बालानामपि सर्वथा । गम्यश्चाहं तदा जातस्ततश्चैवं विगर्हितः ॥ ६॥ पापोऽयं दुष्टचेष्टोऽयमद्रष्टव्यो विमूढधीः । कुलकण्टकभूतोऽयं, सर्वथा विषपुजकः ॥ ७ ॥ मानावलेपनाद् येन, कलाचार्योऽपकर्णितः । मूर्खचूडामणित्वेऽपि, पाण्डियं च प्रकाशितम् ॥ ८॥ माता च प्रियभार्या च, येन मानेन मारिता । को वा निरीक्षते पापं, तमेनं रिपुदारणम् ? ॥ ९॥ उक्तमेवेदमस्माभिर्नोचिताऽस्य दुरात्मनः । सा कलाकौशलादीनां, खानिर्या नरसुन्दरी ।। १० ।। ततश्च-वियुक्तो नरसुन्दा , यदयं तच्च सुन्दरम् । किं तु सा पद्मपत्राक्षी, यन्मृता तन्न सुन्दरम् ॥ ११ ॥ अहं पुनर्महामोहलुप्तज्ञानः स्वचेतसा । तदापि चिन्तयाम्येवं, भद्रे विमललोचने! ॥ १२ ॥ त्यक्तस्यापीह तातेन, निन्दितस्यापि दुर्जनैः । शैलराजमृषावादौ, तथापि मम बान्धवौ ॥ १३ ॥ अनयोर्हि प्रसादेन, भुक्तपूर्व मया फलम् । भोक्ष्ये च कालमासाद्य, पुनर्नास्त्यत्र संशयः ॥ १४ ॥ ततश्चैवं जनेनोचैर्निन्द्यमानः क्षणे क्षणे । स्थितोऽहं भूरिवर्षाणि, दुःखसागरमध्यगः ॥ १५ ॥ इतश्च–अत्यन्तदुर्बलीभूतः, सकोपो मयि निस्फुरः । स तु पुण्योदयो भद्रे!, स्थितोऽकिञ्चित्करस्तदा ॥ १६ ॥ अथान्यदा कचिद्राजा, वाहनार्थ सुवाजिनाम् । वेष्टितो राजवृन्देन, निर्गतो नगरादहिः ॥ १७ ॥ ततः कुतूहलाकृष्टः, सर्वो नागरको जनः । तत्रैव निर्गतोऽहं च, संप्राप्तस्तस्य मध्यगः | ॥ १८ ॥ अथ वाल्हीककाम्बोजतुरुष्कवरवाजिनः । वाहयित्वा भृशं राजा, राजलोकविलोकितः ॥ १९ ॥ ततः खेदविनोदार्थमुद्यानं
सुमनोहरम् । प्रविष्टः सह लोकेन, ललितं नाम शीतलम् ॥ २०॥ तच्च कीदृशम् ?-अशोकनागपुन्नागतालहिन्तालराजितम् । प्रियङ्गुViचम्पकाङ्कोल्लकदलीवनसुन्दरम् ॥ २१ ॥ केतकीकुसुमामोदहृष्टालिकुलमालितम् । समस्तगुणसंपूर्ण, सर्वथा नन्दनोपमम् ॥ २२ ॥ युग्मम् ।
विचक्षण सूर्यागमनं ॥३२२॥
Jain Education
ana
For Private & Personel Use Only
KMjainelibrary.org