SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३.प्र. ॥ ३२१ ॥ Jain Education धमनीजालं शिथिलितान्यङ्गानि समसमायितं श्रोतोभिः निर्वादितं वक्रकुहरं विमुक्ता च सा प्राणैर्वराकी, इतश्च भवनान्निर्गच्छन्ती दृष्टाऽम्बया नरसुन्दरी अहं तु तदनुयायी, चिन्तितमनया - नूनं भद्मप्रणयेयं रुष्टा कचिद् गच्छति मे वधूः, अयं पुनरस्या एव प्रसाद - नार्थं पृष्ठतो लग्नो मम पुत्रकः, ततो दूरं गतयोरावयोरनुमार्गेणागच्छन्ती समागताऽम्बापि तत्र शून्यगृहे, दृष्टा तथा लम्बमाना नरसुन्दरी, चिन्तितमम्बया हा हा हताऽस्मि, नूनं मत्पुत्रकस्यापीयं वार्ता, कथमन्यथाऽस्यामेवं व्यवस्थितायां स तूष्णीमासीत ?, मया तु शैलराजीयावलेपनदोषेणैव अवस्तुनिर्बन्धपरेयमिति कृता तदवधीरणा, ततः शोकभरान्धया मम पश्यत एव तथैव व्यापादितोऽम्बया - प्यात्मा, ततः साध्वससन्तापेनेव शुष्कं मनाङ् मे स्तब्धचित्ताभिधानं तत्तदा हृदयावलेपनं गृहीतोऽहं पश्चात्तापेनाक्रान्तः शोकभरेण - ततः स्वाभाविकस्नेहविह्वलीभूतमानसः । क्षणं विधातुमारब्धः, प्रलापमतिदारुणम् ॥ १ ॥ तथाऽप्यतिप्रौढतया निजमाहात्म्येन कृत एव मे शैलराजेन चित्तावष्टम्भः, चिन्तितं च मया - अये मनुष्यः कथं स्त्रीविनाशे रोदितीति, ततः स्थितोऽहं तूष्णींभावेन, इतश्च कन्दलिकया चिन्तितं किमिति स्वामिनी नागच्छति ? तद्गच्छाम्यहं तदन्वेषणार्थं, ततः कुतश्चिन्निश्चित्य प्राप्ता साऽपि तं प्रदेशं, ततो दृष्ट्वा विमलमातीनरसुन्दय तथा लम्बमाने कृतस्तया हाहारवः मिलितं सतातं नगरं समुच्छलितः कोलाहलः किमेतदिति पृष्टा कन्दलिका निवेदितं तया सर्व यथावृत्तं, अत्रान्तरे संपन्नः स्फुटतरश्चन्द्रालोकः, ततो दृष्टे तथैवोल्लम्बमाने सर्वलोकेनाम्बानरसुन्दर्यौ, विलोकितोऽहमपि स्वकर्मत्रस्ततया भग्नगतिप्रसरो नष्टवाणीकस्तत्रैव लीनो वर्तमानश्छन्नप्रदेशे जातः संप्रत्ययः धिक्कारितोऽहं जनेन कारितं तातेनाम्बानरसुन्दर्योर्मृतककार्यम् - ततस्तत्तादृशं वीक्ष्य, मदीयं कर्म दारुणम् । तातः शोकभराक्रान्तस्तदैवं चिन्तययलम् || १ || अहो अनर्थपुञ्जोऽ- 8 ॥ ३२१ ॥ यमहो मे कुलदूषणः । अहो सर्वजघन्योऽयमद्दो पापिष्ठशेखरः ॥ २ ॥ अहो सर्वापदां मूलमहो लोकपथातिगः । अहो वैरिकसङ्काशो, जननिन्दा onal For Private & Personal Use Only विमलमा लत्युद्ध न्धनं v.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy