________________
उपमितौ तृ. ३-प्र.
॥ ३२० ॥
Jain Education
*94645
रिका अवाप्तनष्टरत्ननिधानेव मूषिका सर्वथा त्रुटिताशापाशबन्धना निपतिता महाशोकभरसागरे चिन्तयितुं प्रवृत्ता — किमिदानीं सर्वथा प्रियतमतिरस्कृताया मम जीवितेनेति, ततो निर्गत्य भवनात् कचिद्गन्तुमारब्धा, ततः किमियं करोतीति विचिन्त्य सहित एव शैलराजेनालक्षितपादपातं लग्नोऽहं तदनुमार्गेण, इतश्च — ठोकयन्निव निर्विण्णो, मदीयं दुष्टचेष्टितम् । अत्रान्तरे गतोऽन्यत्र, तदा क्षेत्रे दिवाकरः ॥ १ ॥ ततः समुल्लसितमन्धकारं संजाता विरलजनसभ्वारा राजमार्गाः, ततो गता सैकत्र शून्यगृहे नरसुन्दरी, इतश्रोद्गन्तुं प्रवृत्तः शशधरः, ततो मन्दमन्दप्रकाशे तामेव निरीक्षमाणः प्राप्तोऽहमपि तङ्कारदेशे, स्थितो गोपायितेनात्मना, ततो नरसुन्दर्या विलोकितं दिक्चक्रवालं, इष्टकास्थलमारुह्योत्तरीयेण बद्धो मध्यवलये पाशकः, निर्मिता तत्र शिरोधरा, ततोऽभिहितमनया – भो भो लोकपालाः ! शृणुत यूयं, अथवा प्रत्यक्षमेवेदं दिव्यज्ञानिनां तत्रभवतां यदुत — लब्धप्रसरतया नाथवादेन कलोपन्यासं कारितो मयाऽऽर्यपुत्रो न परिभवबुद्ध्या, तस्य तु तदेव मानपर्वतारोहकारणं संपन्नं, एवं च सर्वथा निराकृताऽहं तेन मन्दभाग्या, अत्रान्तरे मया चिन्तितं — नास्यास्तपस्विन्या ममोपरि परिभवबुद्धिः, किं तर्हि ?, प्रणयमात्रमेवात्रापराध्यति, ततो न सुन्दरमनुष्ठितं मया, अधुनाऽपि वारयाम्येनामितोऽध्यवसायादिति विचिन्त्य पाशकच्छेदार्थं यावच्चलामि तावदद्भिहितं नरसुन्दर्या यदुत — तत्प्रतीच्छत भगवन्तो लोकपालाः साम्प्रतं मदीयप्राणान् मा च मम जन्मान्तरेष्वपि पुनरेवंविधव्यतिकरो भूयादिति, ततः शैलराजेनाभिहितं — कुमार ! पश्य जन्मान्तरेऽपि त्वदीयसम्बन्धमेषा नाभिलषति, मया चिन्तितं - सत्यमिदं, तथाहि - इयं प्रस्तुतव्यतिकरनिषेधमाशास्ते, मदीयव्यतिकरश्चात्र प्रस्तुतः, तन्त्रियतां, किमनया मम पापया ?, ततो लब्धप्रसरेण दत्तो मम हृदये शैलराजेन स्वविलेपनहस्तकः, स्थितोऽहं तस्य माहात्म्येन तां प्रति काष्ठवन्निष्ठितार्थः, ततः प्रवाहितो नरसुन्दर्यात्मा पूरितः पाशकः लम्बितुं प्रवृत्ता निर्गते नयने निरुद्धः श्वासमार्गः वत्रीकृता ग्रीवा आकृष्टं
For Private & Personal Use Only
उद्बन्धनाय गतिः
॥ ३२० ॥
Sinelibrary.org