SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ * उपमितौ ॥३१९॥ नरसुन्दागमः विमलमालत्याऽभिहितं-पुत्रि! किं क्रियते ? वनमयहृदयोऽसौ ते भर्ता तथापि मा रुदिहि मुञ्च विषादं साहसावष्टम्भेन कुरु तावदेकं त्वमुपायं, गच्छ स्वयमेव प्रियतमप्रसादनार्थ, ततः स्वयं गतायाः प्रत्यागतहृदयः कदाचित्प्रसीदत्यसौ, यतो मार्दवाध्यासितानि कामिहदयानि भवन्ति, अथ तथापि कृते न प्रसीदेत्ततः पश्चात्तापो न भविष्यति, यतः 'सुपरिणामिते वल्लभके किलावरक्तको न भवतीति लोकवार्ता, नरसुन्दरी प्राह-यदाज्ञापयत्यम्बा, ततश्चलिता सा मम तोषणार्थ, किमस्यास्तत्र गतायाः संपद्यत इतिविमर्शेन लग्ना तदनुमार्गेणाम्बा, प्राप्ता मम पार्श्वे नरसुन्दरी, स्थिता द्वारदेशे विमलमालती, नरसुन्दर्याऽभिहितं-नाथं कान्त प्रिय स्वामिजीवदायक वल्लभ । प्रसीद मन्दभाग्यायाः, प्रसीद नतवत्सल! ॥१॥ न पुनस्ते मनोदुःखं, करिष्येऽहं कदाचन । त्वां विना शरणं नाथ!, नास्ति मे भुवनत्रये ॥ २ ॥ एवं च वदन्ती बाप्पोदकबिन्दुवषिणा लोललोचनयुगलेन स्नपयन्ती मदीयचरणद्वयं प्रणता नरसुन्दरी, मम तु तां तारशी पश्यतस्तदा कीदृशं हृदयं संपन्नं ?, अपि च-स्नेहेन नरसुन्दर्या, भवत्युत्पलकोमलम् । वीक्षितं शैलराजेन, शिलासङ्घातनिष्ठुरम् ॥ १॥ नवनीतमिवाभाति, यावञ्चिन्तयति प्रियाम् । वनाकारं पुनर्भाति, शैलराजवशीकृतम् ॥ २॥ ततो दोलां समारूढं, तदा मामकमानसम् । निश्चेतुं नैव शक्नोमि, किमत्र मम सुन्दरम् ? ॥ ३ ॥ तथापि मोहदोषेण, मया दीनाऽपि बालिका । शैलराज प्रियं कृत्वा, भर्त्यिता नर| सुन्दरी ॥ ४ ॥ कथम्-आः पापे ! गच्छ गच्छेति, वागाडम्बरमायया । न प्रतारयितुं शक्यस्त्वयाऽयं रिपुदारणः ॥ ५॥ कुशलाऽपि कलासूचैरन्येषां यदि वञ्चनम् । कर्तुं शक्ताऽसि नो जातु, मूर्खाणामपि मादृशाम् ॥ ६॥ यदाऽहं हसनस्थानं, संजातस्त्वादृशामपि । तदा किं ते प्रलापेन ?, कीदृशी मम नाथता ? ॥ ७ ॥ इत्युक्त्वा स्तब्धसर्वाङ्गः, शून्यारण्ये मुनिर्यथा । स्थितोऽहं मौनमालम्ब्य, शैलराजेन चोदितः ॥ ८॥ ततः सा वराकी नरसुन्दरी विगलितविद्येवाम्बरचारिणी परिभ्रष्टसमाधिसामर्थ्येव योगिनी तप्तस्थलनिक्षिप्तेव शफ SHADERSHUSHUSHSG ॥३१९॥ Jain Education For Private & Personel Use Only Vidinelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy