________________
*
उपमितौ
॥३१९॥
नरसुन्दागमः
विमलमालत्याऽभिहितं-पुत्रि! किं क्रियते ? वनमयहृदयोऽसौ ते भर्ता तथापि मा रुदिहि मुञ्च विषादं साहसावष्टम्भेन कुरु तावदेकं त्वमुपायं, गच्छ स्वयमेव प्रियतमप्रसादनार्थ, ततः स्वयं गतायाः प्रत्यागतहृदयः कदाचित्प्रसीदत्यसौ, यतो मार्दवाध्यासितानि कामिहदयानि भवन्ति, अथ तथापि कृते न प्रसीदेत्ततः पश्चात्तापो न भविष्यति, यतः 'सुपरिणामिते वल्लभके किलावरक्तको न भवतीति लोकवार्ता, नरसुन्दरी प्राह-यदाज्ञापयत्यम्बा, ततश्चलिता सा मम तोषणार्थ, किमस्यास्तत्र गतायाः संपद्यत इतिविमर्शेन लग्ना तदनुमार्गेणाम्बा, प्राप्ता मम पार्श्वे नरसुन्दरी, स्थिता द्वारदेशे विमलमालती, नरसुन्दर्याऽभिहितं-नाथं कान्त प्रिय स्वामिजीवदायक वल्लभ । प्रसीद मन्दभाग्यायाः, प्रसीद नतवत्सल! ॥१॥ न पुनस्ते मनोदुःखं, करिष्येऽहं कदाचन । त्वां विना शरणं नाथ!, नास्ति मे भुवनत्रये ॥ २ ॥ एवं च वदन्ती बाप्पोदकबिन्दुवषिणा लोललोचनयुगलेन स्नपयन्ती मदीयचरणद्वयं प्रणता नरसुन्दरी, मम तु तां तारशी पश्यतस्तदा कीदृशं हृदयं संपन्नं ?, अपि च-स्नेहेन नरसुन्दर्या, भवत्युत्पलकोमलम् । वीक्षितं शैलराजेन, शिलासङ्घातनिष्ठुरम् ॥ १॥ नवनीतमिवाभाति, यावञ्चिन्तयति प्रियाम् । वनाकारं पुनर्भाति, शैलराजवशीकृतम् ॥ २॥ ततो दोलां समारूढं, तदा मामकमानसम् । निश्चेतुं नैव शक्नोमि, किमत्र मम सुन्दरम् ? ॥ ३ ॥ तथापि मोहदोषेण, मया दीनाऽपि बालिका । शैलराज प्रियं कृत्वा, भर्त्यिता नर| सुन्दरी ॥ ४ ॥ कथम्-आः पापे ! गच्छ गच्छेति, वागाडम्बरमायया । न प्रतारयितुं शक्यस्त्वयाऽयं रिपुदारणः ॥ ५॥ कुशलाऽपि कलासूचैरन्येषां यदि वञ्चनम् । कर्तुं शक्ताऽसि नो जातु, मूर्खाणामपि मादृशाम् ॥ ६॥ यदाऽहं हसनस्थानं, संजातस्त्वादृशामपि । तदा किं ते प्रलापेन ?, कीदृशी मम नाथता ? ॥ ७ ॥ इत्युक्त्वा स्तब्धसर्वाङ्गः, शून्यारण्ये मुनिर्यथा । स्थितोऽहं मौनमालम्ब्य, शैलराजेन चोदितः ॥ ८॥ ततः सा वराकी नरसुन्दरी विगलितविद्येवाम्बरचारिणी परिभ्रष्टसमाधिसामर्थ्येव योगिनी तप्तस्थलनिक्षिप्तेव शफ
SHADERSHUSHUSHSG
॥३१९॥
Jain Education
For Private & Personel Use Only
Vidinelibrary.org