________________
उपमितौ तृ. ३-प्र.
॥३१८॥
-अम्ब! महाप्रसादः, अनुगृहीताऽस्मि मन्दभाग्याऽहमनेन वचनेनाम्बया, तद्गच्छतु शीघ्रमम्बा, करोतु ममानुकूलमेकवारमार्यपुत्रं, ततो यदि पुनरयं जनस्तस्य प्रतिकूले वर्तमानः स्वप्नेऽपि विज्ञातः स्यादम्बया ततो यावज्जीवं न संभाषणीयो नापि द्रष्टव्यः पापात्मेति, मया|ऽभिहितं यद्येवं ततो गच्छामि, नरसुन्दरी प्राह-अम्ब! महाप्रसादः, ततः समागताऽहमेषा वत्सस्य समीपे, तदयमत्र वत्स! परमार्थः
-सा तु दन्दह्यते बाला, विदित्वा प्रतिकूलताम् । तवानुकूलतां मत्वा, प्रमोदमवगाहते ॥ १ ॥ वल्लभेयं कुमारस्य, श्रुत्वेदममृतायते । अनिष्टेयं कुमारस्य, श्रुत्वेदं नारकायते ॥२॥ त्वदीयरोषनाम्नाऽपि, म्रियते सा तपस्विनी । सन्तोषमात्रनाम्नाऽपि, तावकीनेन जीवति ॥३॥ अतो यन्मुग्धया किञ्चिदपराद्धं तया तव । बालया प्रणयात्सर्व, तद्वत्सः क्षन्तुमर्हति ॥ ४ ॥ प्रणतेषु दयावन्तो, दीनाभ्युद्धरणे रताः । सस्नेहार्पितचित्तेषु, दत्तप्राणा हि साधवः ॥ ५॥ ततश्चेदमम्बया नरसुन्दरीस्नेहसर्वखमुत्कीर्त्यमानमाकर्ण्य यावत्किलाई | स्नेहनिर्भरतया तां प्रति प्रगुणो भवामि तावच्छैलराजेन विरचिता कुटिलभ्रुकुटियूं नितमुत्तमाकं दत्तो मदीयहृदये विलेपनचर्चः, ततस्तस्याः सम्बन्धिनमपराधं संस्मृत्य जातो मम पुनश्चित्तावष्टम्भः, ततोऽभिहिता मयाऽम्बा यदुत-न कार्य मम तया परिभवकारिण्या पापयेति, अम्बयाऽभिहितं-वत्स! मा मैवं वोचः, क्षन्तव्यो मम लग्नाया वत्सेन तदीयोऽयमेको गुरुरप्यपराधः, ततः पतिता मच्चरणयोरम्बा, मयाऽभिहितं-अपसर त्वमप्यवस्तुनिर्बन्धपरे! मम दृष्टिपथादपसर, न प्रयोजनं त्वयाऽपि मे, या त्वं मया निःसारितां तां दुरात्मिकां संगृहासि, ततश्चरणाभ्यां प्रेरिता मयाऽम्बा, ततो भद्रेऽगृहीतसङ्केते! शैलराजवशवर्तिना मया पापात्मना तथा तिरस्कृता सती लक्षयित्वा मदीयमनिवर्तकमाग्रहविशेषं निराशा मुञ्चन्ती नयनसलिलं यथाऽऽगतमेव प्रतिगताऽम्बा, निवेदितो नरसुन्दय व्यतिकरः, तमाकर्ण्य वननिर्दलितेव मूर्च्छया निपतिताऽसौ भूतले सिक्ता चन्दनरसेन समाश्वासिता तालवृन्तवायुना लब्धचेतना रोदितुमारब्धा,
- SARKARSACROCARICA
मातुस्तिरस्कार:
Jain Educati
onal
For Private
Personal Use Only
Www.jainelibrary.org