________________
उपमितौ तृ. ३-प्र.
पादनबु
नेन, एतच्चाकर्ण्य नरसुन्दर्याः संजातो मनसि व्यलीकभावः, चिन्तितमनया-अहो अस्य प्रत्यक्षापलापित्वं अहो निर्लजता अहो| धृष्टता अहो आत्मबहुमानिता, ततोऽभिहितं नरसुन्दर्या-आर्यपुत्र! यद्येवं ततो महत्कुतूहलं मम इदानीमप्यहमार्यपुत्रेण कलास्वरूपमु-13 कीर्त्यमानं श्रोतुमिच्छामि अतो महता प्रसादेन समुत्कीर्तयतु तदार्यपुत्रः, मया चिन्तितं-अये! पाण्डित्याभिमानेन परिभवबुद्ध्या मामुपहसत्येषा, अत्रान्तरे लब्धावसरो विज़म्भितः शैलराजः विलिप्तं तेन स्तब्धचित्ताभिधानेनात्मीयविलेपनेन स्वहस्तेन मद्धृदयं, ततश्चि-I परिभवान्तितं मया-एवं या मम परिभवेनोपहासकारिणी खल्वेषा पापा नरसुन्दरी, तया किमिह स्थितया ?, ततो मयाऽभिहितं-अपसर पापे! दृष्टिमार्गादपसर, तूर्ण निर्गच्छ मदीयभवनात , न युक्तं भवाश्याः पण्डितंमन्याया मूर्खेणानेन जनेन सहावस्थातुमिति, ततोऽ
द्धिः निवलोकित मदीयवदनं नरसुन्दयों, चिन्तितमनया-हा धिक सद्भावीभूत एवायं वशीकृतो मानभटेन न गोचरः साम्प्रतं प्रसादनायाः, ष्काशन ततो मन्त्राहतेव भुजङ्गवनिता समुन्मूलितेव वनलतिका उत्खोटितेव चूतमजरी अङ्कशकृष्टेव करिणिका सर्वथा विद्राणदीनवदना साध्व-1|| |सभारनिर्भरं हृदयमुद्वहन्ती मन्दं मन्दं कणन्मणिमेखलाकिङ्किणीकलकोलाहलनूपुरझणझणारावसमाकृष्टतानवापिकाकलहंसिकानि पदानि निक्षिपन्ती चलिता नरसुन्दरी निर्गता मामकीनसदनात् प्राप्ता तातीयभवने, स्थितोऽहं शैलस्तम्भनया यावदद्यापि न शुष्यति शैलरा
जीयं तद्वक्षःस्थलावलेपनं तावती वेलां, शोषमुपागते मनाक पुनस्तत्रावलेपने संजातो मे पश्चात्तापः, बाधते नरसुन्दरीनेहमोहः समाध्या- विमलमा* सितोऽहमरत्या गृहीतो रणरणकेन अङ्गीकृतः शून्यतया उररीकृतो विह्वलतया प्रतिपन्नो विकारकोटीभिः अवष्टब्धो मदनज्वरेण, ततो. लत्यागमः
निषण्णः शयनीये, तत्रापि प्रवर्धमानया जृम्भिकयाऽनवरतमुद्वर्तमानेनाङ्गेन मत्स्यक इव खादिराङ्गारराशिमध्ये दन्दह्यमानः स्तोकवेलायां ॥३१६॥ यावत्तिष्ठामि तावदागता सविषादमम्बा विमलमालती, ततस्तां वीक्ष्य कृतं मयाऽऽकारसंवरणं, निषण्णा भद्रासने स्वयमेवाम्बा, स्थितोऽहं
Jain Education in
For Private Personel Use Only
Sinelibrary.org