________________
उपमितौ तृ. ३-प्र.
॥ ३१५ ॥
Jain Education
७
|जितम् ॥ १६ ॥ स्तब्धोऽभून्मूर्खभावेन, प्रागेष रिपुदारणः । आसाद्येमां पुनर्भार्या, गर्वेणान्धोऽधुना ह्ययम् ॥ १७ ॥ स एव वर्तते न्यायो, लोके यः किल श्रूयते । एकं स वानरस्तावद्दष्टोऽन्यद्वृषणेऽलिना ॥ १८ ॥ तदेषा चारुसर्वाङ्गी, सद्भार्या नरसुन्दरी । करिणीव खरस्यो| चैर्न योग्याऽस्य मृगेक्षणा ॥ १९ ॥ अन्यदा नरसुन्दर्या, सद्भावार्पितचित्तया । स्नेहगर्भपरीक्षार्थ, चिन्तितं निजमानसे ॥ २० ॥ किं ममार्पितसद्भावः ?, किं वा नो रिपुदारणः ? । आ ज्ञातं स्नेहसर्वस्वं गुह्याख्यानेन गम्यते ॥ २१ ॥ अनाख्येयमतः किञ्चिद्रुह्मसर्वस्वमञ्जसा । पृच्छाम्येनं दृढस्नेहे, ततो व्यक्तिर्भविष्यति ॥ २२ ॥ ततश्चिन्तितं नरसुन्दर्या — कीदृशं पुनरहं गुह्यमधुनाऽऽर्यपुत्रं पृच्छामि ?, हुं ज्ञातं तावत्सुनिश्चितमिदं मया यदुत — नितरां कमनीयशरीरोऽपि रक्ताशोकपादपवदेष निखिलकलाकलाप कौशलफलविकल एवार्यपुत्रः, | यतो विज्ञानाभावजनितायातिरेकादेव तथाविधोऽस्य तदा सभामध्ये मनः क्षोभोऽभूत्, तदधुना तदेव मनःक्षोभकारणमार्यपुत्रं प्रश्नयामि, ततो यदि स्फुटमाचक्षीत विज्ञास्यामि यथाऽस्ति मया सहास्य स्नेहसद्भावः अथ न कथयेत्ततस्तत्राप्यभिप्रायं लक्षयिष्यामीति विचिन्त्य पृष्टोऽहं नरसुन्दर्या यदुत — आर्यपुत्र ! कीदृशं तव तदा सभामध्ये शरीरापाटवमासीदिति, अत्रान्तरे ज्ञातावसरेण प्रयुक्ता मृषावादेनाऽऽत्मीया योगशक्तिः कृतमन्तर्धानं प्रविष्टो मदीयमुखे, ततोऽभिहितं मया - प्रियतमे ! त्वया पुनस्तदा कीदृशं लक्षितं ?, नरसुन्दरी प्राह - न मया किञ्चित्तदा सम्यग् विज्ञातं, केवलं समुत्पन्ना शङ्का - किं सत्यमेव शरीरापाटवमार्यपुत्रस्य ? किं वा कलाकलापे न कौशलमिति ?, मयाऽभिहितं— सुन्दरि ! न तत्रैकोऽपि विकल्पः कर्तव्यः यतस्तरन्ति हृदये मम सकलाः कलाः शरीरापाटवमपि मम न कि - श्चित्तदाऽऽसीत्, केवलमम्बया तातेन चालीकमोहात् कृतो मुधैव बहलः कलकलः, तथाविधालीककलकले च स्थिरतया स्थितोऽहं मौ१ गीयते प्र. २ मुष्के. ३ वृश्चिकेन.
For Private & Personal Use Only
प्रेमपरीक्षायै कला
प्रश्नः
॥ ३१५ ॥
ainelibrary.org