SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ उपमिती ॥३१४॥ स्तदिनं, परिणीता मया महता विमर्दैन नरसुन्दरी, तां विमुच्य गतः स्वस्थाने नरकेसरी, दत्तो मह्यं तातेन नियंप्रभोगार्थ महाप्रासादः, गतानि नरसुन्दा सह ललमानस्य मे कतिचिदिनानि, घटितं च पुण्योदयेन निरन्तरमावयोः प्रेम समुत्पादितश्चित्तविश्रम्भः लगिता परस्परं प्रेम मैत्री जनितो मनोरतिप्रबन्धः प्ररोहितः प्रणयः वर्धितश्चित्तमीलकालादप्रणयसागरः सर्वथा, स्वप्रभामिव तीक्ष्णांशुश्चन्द्रिकामिव चन्द्रमाः । क्षणमेकं न मुञ्चामि, तामुमामिव शङ्करः ॥ १॥ साऽपि मामकवक्राब्जरसास्वादनतत्परा । भ्रमरीव गतं कालं, न जानाति तपस्विनी ॥ २ ॥ ततस्तं तादृशं वीक्ष्य, देवानामपि दुर्लभम् । सार्ध मे नरसुन्दर्या, प्रेमाबन्धं मनोहरम् ॥ ३॥ मदीयौ सुहृदाभासौ, परमार्थेन वैरिको । तौ मृषावादशैलेशौ, चित्तमध्ये रुषं गतौ॥४॥युग्मम् । चिन्तितं च ततस्ताभ्यां, कथमेष वियोक्ष्यते । एतया नरसुन्दर्या, पापात्मा रिपुदारणः? ॥ ५ ॥ शैलराजो मृषावाद, ततश्चेत्थमभाषत । त्वं तावन्नरसुन्दर्याः, कुरु चित्तविर जनम् ॥ ६॥ स्वयमेवाहम-| त्रार्थे, भलिष्यामि ततः परम् । मादृशा च कृते यत्ने, कीदृशं प्रेमबन्धनम् ? ॥ ७ ॥ मृषावादस्ततः प्राह, नोत्साह्योऽहं भवादृशा । कृतमेव मया पश्य, एतस्याश्चित्तभेदनम् ॥ ८ ॥ तदेवं मद्वियोगार्थ, ततस्तौ कृतनिश्चयौ । शैलराजमृषावादी, पर्यालोच्य व्यवस्थितौ ॥९॥ अहं तु तां समासाद्य, सद्भार्या नरसुन्दरीम् । चिन्तयामि त्रिलोकेऽपि, प्राप्तं यत्सुन्दरं मया ॥ १०॥ ततश्चोन्नामितैकभ्रर्मन्थरीकृतलोचनः। दत्त्वा तच्छैलराजीयं, हृदये स्वेऽवलेपनम् ॥ ११॥ चिन्तयामि न लोकेऽत्र, पुरुषोऽन्योऽस्ति मादृशः । यतो ममेदृशी भार्या, ततो गाढतरं पुनः ॥ १२॥ न पश्यामि गुरुं नैव, देवान्नो बन्धुसन्ततिम् । न भृत्यवर्ग नो लोकं, न जगत् सचराचरम् ॥१३॥ त्रिभिर्विशेषकं । अथ ते |तत्तादृशं दृष्ट्वा, मदीयं दुष्टचेष्टितम् । पुण्योदयो मनस्तापागाढं जातोऽतिदुर्बलः ॥ १४ ॥ ततो मां तादृशं वीक्ष्य, विरक्ताः सर्वबान्धवाः ॥ ३१४॥ | इदं जल्पितुमारब्धा, हसन्तस्ते परस्परम ॥ १५॥ पश्यताहो विधेः कीदृगस्थानविनियोजनम् ? । स्त्रीरनमीदृशं येन, मूर्खेणानेन यो-18 Jain Education tarana For Private & Personel Use Only Comyjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy