________________
1545
नरसुन्दरीविवाहः
उपमिती शेषे निद्रा, ततो भद्रे ऽगृहीतसङ्केते! समाश्वासनार्थ तातस्य दत्तं कामरूपितया स्वप्नान्तरे तेन पुण्योदयेन दर्शनं, दृष्टः सुन्दराकारो धव
लवर्णः पुरुषः, अभिहितमनेन-महाराज! किं स्वपिषि किं वा जागर्षि ?, तातेनाभिहितं-जागर्मि, पुरुषः प्राह-यद्येवं ततो मुञ्च
विषादं, दापयिष्याम्यहं रिपुदारणकुमाराय नरसुन्दरीमिति, तातेनाभिहितं-महाप्रसादः, अत्रान्तरे प्रहतं प्राभातिकं तूर्य, ततो विबुद्ध॥३१३॥
भास्तातः, पठितं कालनिवेदकेन-हीनप्रतापो यः पूर्व, गतोऽस्तं जगतां पुरः । स एवोदयमासाद्य, रविराख्याति हे जनाः! ॥१॥ यदा
येनेह यल्लभ्यं, शुभं वा यदिवाऽशुभम् । तदाऽवाप्नोति तत्सर्व, तत्र तोषेतरौ वृथा ॥ २ ॥ एतच्चाकर्ण्य चिन्तितं तातेनयदुत-न कर्तव्यो मयाऽधुना विषादः, यतो लम्भयिष्यामि कुमारं नरसुन्दरीमिति स्फुटमेव निवेदितं स्वप्ने मम देवेन, अनेन तु कालनिवेदकेन पाठव्याजेन दत्तो ममोपदेशो वेधसा यदुत-यः पुरुषो यावतः सुन्दरस्यासुन्दरस्य वा वस्तुनो यदा भाजनं तस्य तावत्तदतकिंतमेव तदा मद्वशेन संपद्यत इति न कर्तव्यौ तत्र विदुषा हर्षविषादौ, ततोऽनया भावनया स्वस्थीभूतस्तातः । इतश्चाचिन्त्यप्रभावतया
पुण्योदयस्य संपादिता तेन नरकेसरिणो बुद्धिः यदुत-महानुभावोऽयं नरवाहनराजः, विज्ञातं च राज्यान्तरेष्वपि मम यदिहागमनप्रप्रयोजनं ततो लज्जाकरं पक्षद्वयस्यापि नरसुन्दरीमदत्त्वा मम स्वस्थाने गमनं, अतः संभाल्य कथञ्चिदेनां प्रयच्छामि रिपुदारणकुमारालयेति, ततो निवेदितो नरकेसरिणा वसुंधरासमक्षं नरसुन्दय स्वाभिप्रायः, ततो नरसुन्दर्या अपि पुण्योदयप्रभावादेव वलितं मां प्रति मा
नसं, चिन्तितमनया-युक्तियुक्तमेव तातेन मत्रितं, ततोऽभिहितमनया-यदाज्ञापयति तातः, तदाकर्ण्य हृष्टो नरकेसरी, आगत्याभिहि
तोऽनेन नरवाहनः, महाराज! किमत्र बहुना जल्पितेन? आगतैवेयं वत्सा नरसुन्दरी कुमारस्य स्वयंवरा, तदत्र किंबहुना विकत्थनेन?, उ. भ. २७ला केवलं दुर्जनवचनावकाशो भवति, अतो निर्विचारं ग्राह्यतां कुमारेण स्वपाणिना पाणिरस्याः, तातेनाभिहितं-एवं क्रियते, गणितं प्रश
*5453
॥३१३॥
Jain Education International
For Private & Personel Use Only
jainelibrary.org