________________
उपमितौ च. ४-प्र.
SA
॥३१२॥
रङ्गमण्डपविसर्गः
गर्वाध्मातः परं मूढो, बस्तिवद्वातपूरितः । निःसारोऽपि गतः ख्यातिमेष भो! रिपुदारणः ॥ १ ॥ अथवा-निरक्षरोऽपि वाचालो, लोकमध्येऽतिगौरवम् । वागाडम्वरतः प्राप्तो, यः स्यादन्योऽपि मानवः ॥ २ ॥ स सर्वो निकषप्राप्तः, प्राप्नोत्येव विडम्बनाम् । महाहास्यकरी मूढो, यथाऽयं रिपुदारणः ॥ ३ ॥ युग्मम् ॥ मम तु तातोपाध्यायौ कर्णोत्सारकेण परस्परं तथाजल्पन्तौ पश्यतः समुत्पन्नो मनसि | विकल्प:-अये! बलात्कारेण मामेतौ जल्पयिष्यतः, ततो भयातिरेकेण स्तम्भितं मे गलकनाडीजालं निरुद्धश्वोच्छासनिःश्वासमार्गः |संजाता म्रियमाणावस्था, ततो हा पुत्र हा तात हा वत्स हा तनय ! किमेतदितिप्रलपन्ती वेगेनागत्य शरीरे लग्ना ममाम्बा विमलमालती, पर्याकुलीभूतः परिजनः किं कर्तव्यताविमूढा वसुंधरा विस्मितो नरकेसरी, तातेनाभिहितं-च्छत भो लोकाः! गच्छत न पटुः शरीरेणाद्य कुमारः, पुनर्जल्पो भविष्यति, तदाकर्ण्य निर्गता वेगेन लोकाः, मिलिता वहित्रिकचतुष्कचत्वरादिषु, अहो रिपुदारणस्य पा| ण्डित्यमहो पाण्डित्यमिति प्रवृत्तं प्रहसनं, प्रहितौ लज्जावनम्रेण तातेन कलोपाध्यायनरकेसरिणौ, गतः खावासस्थाने नरकेसरी, चिन्तितमनेन–दृष्टं यद्रष्टव्यं, दीयतां प्रभाते प्रयाणकमिति ॥ ममापि निर्जनीभूते मन्दीभूतं भयं स्वस्थीभूतं शरीरं, तातस्य तु हृतराज्यस्येव वज्रातस्येव महाचिन्ताभराक्रान्तस्य लविन्तं तद्दिनं, समागता रजनी, न दत्तं प्रादोषिकमास्थानं, निवार्य जनप्रवेशं प्रसुप्तः, केवलं तया चिन्तयाऽपनिद्रेणैवातिवाहितप्राया विभावरी ॥ इतश्च लज्जितो मे वयस्यः पुण्योदयः, चिन्तितमनेन-यस्य जीवत एवैवं, पुंसः स्वामी विडम्ब्यते । किं तस्य जन्मनाऽप्यत्र, जननीक्लेशकारिणः ॥ १॥ ततश्च-जातं विच्छायकं तावन्ममैतदतिदुःसहम् ।
यायात्सुतामदत्त्वैव, यद्यसौ नरकेसरी ॥ २॥ ततोऽस्य सर्वथा व्यर्थ, कुमारस्य मदीयकम् । संनिधानमतो नैव, ममोपेक्षाऽत्र युज्यते M॥३॥ ततो यद्यप्ययोग्योऽयमेतस्या रिपुदारणः । तथापि दापयाम्येनामस्मै कमललोचनाम् ॥ ४॥ अत्रान्तरे समागता तातस्य रात्रि
पुण्योदयेन दापिताकुमारी
॥३१२॥
Jain Education
For Private
Personal Use Only
R
ainelibrary.org