________________
उपमितौ च. ४-प्र.
॥३१॥
COLOGICALMOSALM
विलिप्तं स्तब्धचित्तेन तेनावलेपनेन मयाऽऽत्महृदयं, चिन्तितं च-कोऽन्यो मां विहायैनां परिणेतुमर्हति?, न खलु मकरध्वजाहते रतिरन्यस्योपनीयते, अत्रान्तरे विहितविनया तातादीनामभिहिता नरकेसरिणा नरसुन्दरी यदुत-उपविश वत्से !, मुश्च लजा, पूरयाऽऽत्मीयमनोरथान , प्रश्नय रिपुदारणकुमारं कलामार्गे यत्र कचित्ते रोचते, ततो नरसुन्दा सहर्षमुपविश्याभिहितं यदाज्ञापयति तातः, केवलं गुरूणां समक्षं न युक्तं ममोद्बाहयितुं, तस्मादार्यपुत्र एवोद्बाहयतु सकलाः कलाः, अहं पुनरेकैकस्यां कलायां सारस्थानानि प्रचयिष्यामि, तत्रार्यपुत्रेण निर्वाहः करणीय इति, तदाकर्ण्य हृष्टौ नरवाहननरेन्द्रौ समस्तं राजकुलं लोकाश्च, ततस्तातेनाभिहितोऽहं-कुमार! सुन्दरं मत्रितं राजदुहित्रा, तत्साम्प्रतमुद्राहयतु कुमारः सकलाः कलाः पूरयत्वस्या मनोरथान् जनयतु ममानन्दं निर्मलयतु कुलं गृह्णातु जयपताकां, एषा सा निकषभूमिवर्तते विज्ञानप्रकर्षस्येति, मम तु तदा कलानां नामान्यपि विस्मृतानि, ततो विह्वलीभूतमन्तःकरणं प्रकपिता गात्रयष्टिः प्रादुर्भूताः प्रस्खेदबिन्दवः संजातो रोमोद्धर्षः प्रनष्टा भारती तरलिते लोचने, ततो हा किमेतदिति विषण्णस्तातः, प्रलोकितं महामतिवदनं, महामतिराह-किं कर्तव्यमादिशतु देवः, तातेनाभिहितं-किमितीयमीदृशी कुमारशरीरेऽवस्था ?, ततः कर्णे निवेदितं महामतिना, देव! मनःक्षोभविकारोऽयमस्य, तातः प्राह–किं पुनरस्य मनःक्षोभनिमित्तं?, महामतिराह-देव! प्रस्तुतवस्तुन्यज्ञानं, | भवत्येव हि वागायुधानां सदसि विदुषां सस्पर्धमाभाषितानां ज्ञानावष्टम्भविकलानां मनसि क्षोभातिरेकः, तातेनाभिहितं, आर्य! कथम
ज्ञानं कुमारस्य ?, ननु सकलकलासु प्रकर्ष प्राप्तः कुमारो वर्तते, ततः संस्मृत्य मदीयदुर्विलसितं गृहीतो मनाकोधेन कलाचायः, ततो|भिहितमनेन-देव! प्रकर्ष प्राप्तः कुमारः शैलराजमृषावादप्रणीतयोः कलयोन पुनरन्यत्र, तातः प्राह के पुनस्ते कले?, महामतिराहWiदुर्विनयकरणमसत्यभाषणं च, एते ते शैलराजमृषावादप्रणीते कले, अनयोश्चात्यन्तं कुशलः कुमारः, न पुनरन्यकलानां गन्धमात्रमपि
भ्रमनाशः
॥३१०॥
Jain Educat
i onal
For Private & Personel Use Only
Dwww.jainelibrary.org