SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-अ. यभवनात् , ततोऽभिहिता महामतिना राजदारकाः-अरे! निर्गतस्तावदेष दुरात्मा रिपुदारणः, केवलं गरीयान्नरवाहननृपतेः पुत्रस्नेहः, "नेहमूढाश्च प्राणिनो न पश्यन्ति वल्लभस्य दोषसमूह समारोपयन्त्यसन्तमपि गुणसङ्घातं रुष्यन्ति तद्विप्रियकारिणि जने न विचारयन्ति "विप्रियकरणकारणं न लक्षयन्ति स्थानमानान्तरं कुर्वन्ति स्वाभिमतविप्रियकर्तुमहापायं", तदेवं व्यवस्थिते भवद्भिमौनमवलम्बनीयं, यदि रिपुदारणनिर्गमनव्यतिकरं प्रश्नयिष्यति देवो नरवाहनस्ततोऽहमेव तं प्रत्याययिष्यामि, राजदारकैरभिहितं यदाज्ञापयत्युपाध्यायः । इतश्च ततो निर्गत्य गतोऽहं तातसमीपे, पृष्टस्तातेन-पुत्र! किं वर्तते कलाग्रहणस्येति ?, ततः शैलराजीयहृदयावलेपनवशेन मृषावादावष्टम्भेन च मयाऽभिहितं-तात! समाकर्णय-पूर्वमेव ममाशेष, विज्ञानं हृदयस्थितम् । अयं तावकयनो मे, विशेषाधायकः परम् ॥ १॥ ततश्चलेख्ये चित्रे धनुर्वेदे, नरादीनां च लक्षणे । गान्धर्वे हस्तिशिक्षायां, पत्रच्छेद्ये सवैद्यके ।। २॥ शब्दे प्रमाणे गणिते, धातुवादे सकौतुके । निमित्ते याश्च लोकेऽत्र, कलाः काश्चित्सुनिर्मलाः ॥ ३ ।। तासु सर्वासु मे तात!, प्रावीण्यं वर्तते परम् । आत्मतुल्यं न पश्यामि, त्रैलोक्ये|ऽप्यपरं नरम् ॥ ४॥ सुतस्नेहेन तच्छ्रुत्वा, तातो हर्षमुपागतः । चुम्बित्वा मूर्धदेशे मामिदं वचनमब्रवीत् ॥ ५ ॥ जात! चारु कृतं चारु, सुन्दरस्ते महोद्यमः। किं त्वेकं मे कुमारेण, वचनं श्रूयतामिति ॥६॥ मयाभिहितं-वदतु तात!, तातेनाभिहितं-विद्यायां ध्यानयोगे च, स्वभ्यस्तेऽपि हितैषिणा। सन्तोषो नैव कर्तव्यः स्थैर्य हितकरं तयोः ॥७॥ एवं च स्थिते-गृहीतानां स्थिरत्वेन, शेषाणां प्रणेन च । कलानां मे कुमारत्वे, त्वं पुषाण मनोरथान् ।। ८ ।। मयाऽभिहितं-एवं भवतु, ततो गाढतरं तुष्टस्तातः, दत्तो भाण्डागारिकस्यादेशः, अरे पूरय महामतिभवनं धनकनकनिचयेन, येन कुमारः सकलोपभोगसम्पत्त्या निर्व्यग्रस्तत्रैव कलाग्रहणं कुर्वन्नास्ते, ततो यदाज्ञा-18 पयति देव इत्यभिधाय संपादितं भाण्डागारिकेण राजशासनं, महामतिनाऽपि मा देवस्य चित्तसन्तापो भविष्यतीत्याकलय्य न निवेदितं कलासु स्थैर्य हितं Jain Education Inter For Private & Personel Use Only w.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy