SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ F उपमितौ पीठबन्धः ॥२७॥ ज्ञेया, अजीर्ण कर्मसञ्चयः ॥ ६४ ॥ भोगाः पुत्रकलत्राद्या, यच्च संसारकारणम् । तज्जीवगृद्धिहेतुत्वात् , कदन्नमभिधीयते ॥ ६५ ॥ य-18 श्वासौ सुस्थितो नाम, महाराजः प्रकाशितः । जानीत परमात्मानं, सर्वज्ञं तं जिनेश्वरम् ॥ ६६ ॥ यच्च तन्ननितानन्द, गदितं राजमन्दिरम् । अनन्तभूतिसंपन्नं, तत् ज्ञेयं जिनशासनम् ॥ ६७ ॥ स्वकर्मविवरो नाम, यः प्रोक्तो द्वारपालकः । आत्मीयकर्मविच्छेदो, यथार्थोऽसावुदाहृतः ॥ ६८ ॥ ये चान्ये सूचितास्तत्र, द्वारपालाः प्रवेशकाः । ते मोहाज्ञानलोभाद्या, विज्ञेयास्तत्त्वचिन्तकैः ॥ ६९ ॥ आचार्यास्तत्र राजान, उपाध्यायास्तु मत्रिणः । गीतार्थवृषभा योद्धा, गणचिन्तानियुक्तकाः ॥ ७० ॥ सामान्यभिक्षवः सर्वे, विज्ञेयास्तलवर्गिकाः । आर्यास्तु तत्र सद्गहे, प्रशान्ताः स्थविराजनाः ॥ ७१ ॥ भटौघाः श्राद्धसङ्घातास्तद्रक्षाबद्धमानसाः । ज्ञेया विलासिनीसार्था, भक्तास्तत्प्रमदागणाः ॥ ७२ ॥ शब्दादिविषयानन्दवर्णनं पुनरत्र यत् । तदेवैमर्थ सद्धर्माज्जायन्ते तेऽपि सुन्दराः ॥ ७३ ॥ धर्मबोधकरो ज्ञेयः, सूरियों | मत्प्रबोधकः । तद्दया तस्य या जाता, ममोपरि महाकृपा ।। ७४ ॥ ज्ञानम जनमुद्दिष्टं, सम्यक्त्वं जलमुच्यते । चारित्रमत्र विज्ञेयं, परमान्नं मनीषिभिः ॥ ७५ ॥ सद्बुद्धिः शोभना बुद्धिः, सन्मार्गे या प्रवर्तिका । काष्ठपात्री त्रैयाघारा, वक्ष्यमाणा कथोच्यते ॥ ७६ ॥ एषा |समासतस्तावत् , कृता सामान्ययोजना । विशेषयोजना व्यक्तं, गद्येनोदाहरिष्यते ॥ ४७७ ॥ तत्रेह तावत्तत्त्वविदुषामेष मार्गो यदुत-'तेषां कल्याणाभिनिवेशितया निष्प्रयोजनो विकल्पो न चेतसि विवर्त्तते, अथ कदाचिभावि- विदुषा स| "तावस्थायां विवर्तेत तथापि ते न निर्निमित्तं भाषन्ते, अथ कदाचिदतत्त्वज्ञजनान्तर्गततया भाषेरन् तथापि न निर्हेतुकं चेष्टन्ते, यदि पु-| न्मार्गः "नस्ते निष्कारणं चेष्टेरन् ततोऽतत्त्वज्ञजनसार्थादविशिष्टतया तत्त्ववित्ता विशीर्येत, तस्मात्तत्त्ववेदिष्वात्मनोऽन्तर्भावमभिलषता सकलकालं ॥ २७॥ १ त्व. प्र. २ तत् सर्वमिति ज्ञापनाय. ३ त्रयाकारा प्र. ४ कथश्चिद्. ORCAMERACडल Jain Education Temona For Private & Personel Use Only elainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy