SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ उपमिता पीठबन्धः ॥२६॥ वर्णवशेनास्मान , पाहयत्यात्मभेषजम् ॥ ४६॥ ततः केचिद्धसन्त्युच्चैः, केचिदुत्प्रासयन्ति तम् । अन्ये पराङ्मुखीभूय, तिष्ठन्ति विगता-IIविचक्षणा दराः॥४७॥ अथ तं तादृशं वीक्ष्य, दानोत्साहविबाधकम् । जनव्यापारमागत्य, सद्बुद्धेः कथयत्यसौ ॥४८॥ गृहन्ति द्रमका भद्रे!, न कथितादा. गृहन्ति महाजनाः । ममेच्छा यदि सर्वेषामेतेषामुपयुज्यते ॥ ४९ ॥ पर्यालोचे दृढं पवी, वर्त्तसे विमलेक्षणे! । तदत्र हेतुर्विद्येत, पाहणे नोपायाः |ऽस्य महात्मनाम् ॥ ५० ॥ तदाकर्ण्य महाकार्ये, नियुक्ताऽहमनेन भोः! । चिन्तयन्ती महाध्यानं, प्रविष्टा सा विचक्षणा ॥५१॥ अथ ४४९-४५९ निश्चित्य गर्भार्थ, कार्यस्येत्थमभाषत । एक एवात्र हेतुः स्याद्, ग्राहणे सर्वसंश्रयः ॥ ५२ ॥ राजाऽजिरे विधायेदं, काष्ठपात्र्यां जनाकुले । वस्तुत्रयं विशालायां, तिष्ठ विश्रब्धमानसः ॥ ५३ ॥ स्वयमेव ग्रहीष्यन्ति, शून्यं दृष्ट्वा तदर्थिनः । स्मरन्तो रोरभावं हि, त्वत्करात्ते न गृहृते ॥ ५४॥ आदद्यात् कश्चिदेकोऽपि, यदि तत् सगुणो नरः । तेन स्यात्तारितो मन्ये, यत एतदुदाहृतम् ॥५५/-"किश्चिज्ज्ञानमयं पात्रं, किञ्चित्पात्रं तपोमयम् । आगमिष्यति तत्पात्रं, यत्पात्रं तारयिष्यति ॥ ५६ ॥” ततोऽसौ वर्द्धितानन्दस्तस्या वचनकौशलैः । विधत्ते तत्तथैवेति, तत्रेदमभिधीयते ॥५७॥-प्रयुक्तं तादृशेनापि, ये गृहीष्यन्ति मानवाः । ते भविष्यन्ति नीरोगा, यत् त्रयं तत्र कारणम् ॥५॥ अन्यच्चयावदर्थ निसृष्टत्वाद् , ग्रहणे तदनुग्रहात् । अनुकम्पापरस्तत्र, सर्वस्तल्लातुमर्हति ॥ ५९॥ एष तावत्समासेन, दृष्टान्तः प्रति कथोपनयः पादितः । अधुनोपनयं यूयं, कथ्यमानं निबोधत ॥ ६॥ अदृष्टमूलपर्यन्तं, यन्त्र कथितं पुरम् । सोऽयं संसारविस्तारोऽदृष्टपारः ४६०-४७७ प्रतीयताम् ॥ ६१ ॥ महामोहहतोऽनन्तदुःखाघ्रातो विपुण्यकः । पूर्व मदीयजीवोऽयं, स रोर इति गृह्यताम् ॥ ६२ ॥ भिक्षाधारतया ख्यातं, यत्तस्य घटकर्परम् । तदायुर्गुणदोषाणामाश्रयस्तद्धि वर्त्तते ॥ ६३ ॥ डिम्भाः कुतीर्थिका प्राह्या, वेदना क्लिष्टचित्तता । रोगा रागादयो १ उपहासविशेषास्पदं कुर्वन्ति. २ इत्येवंरूपा. ३ चेद्वदेति शेषः, ४ भवान्. ५ यावन्तोऽर्थिनोऽत्र तदर्थ. Jain Educatiemational For Private & Personel Use Only Malww.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy