________________
उपमितौ
तृ. ३-प्र.
॥ ३०५ ॥
Jain Education
शिथिलितो ममोपरि कलाशास्त्रग्राहणानुबन्धः परित्यक्तमुपचारसंभाषणं दृष्टोऽहं धूलिरूपतया, तथापि तातलज्जया नासौ बहिर्मुखविकारमात्रमपि दर्शयति न च मनागपि मां परुषमाभाषते, इतश्च तेऽपि राजदारकाः शैलराजमृषावादनिरतं मामुपलभ्य विरक्ताश्चित्तेन, तथापि पुण्योदयेनाधिष्ठितं मां ते चिन्तयन्तोऽपि न कथञ्चिदभिभवितुं शक्नुवन्ति इतश्च यथा यथा तौ शैलराजमृषावादौ वर्धेते तथा तथाऽसौ मदीयवयस्यः पुण्योदयः क्षीयते, ततः कृशीभूते तस्मिन् पुण्योदये समुत्पन्ना मे गाढतरं गुरुपरिभवबुद्धिः, अन्यदा निर्गतो बहिः प्रयोजनेनोपाध्यायः, ततोऽधिष्ठितं मया तदीयं महाईं वेत्रासनं दृष्टोऽहमुपविष्टस्तत्र राजदारकैः, ततो लज्जितास्ते मदीयकर्मणा, लघुध्वनिना चोक्तमेतैः — हा हा कुमार ! न सुन्दरमिदं विहितं भवता वन्दनीयमिदं गुरोरासनं न युक्तं भवादृशामस्याक्रमणं, यतोऽस्मिन्नुपविशतां संपद्यते कुलकलङ्कः समुल्लसति भृशमयशः पटहः प्रवर्धते पापं संजायते चायुषः क्षरणमिति, मयाऽभिहितं - अरे ! बा - लिशा ! नाहं भवादृशां शिक्षणाई:, गच्छत यूयमात्मीयं सप्तकुलं शिक्षयत, तदाकर्ण्य स्थितास्ते तूष्णींभावेन, ततः स्थित्वा तत्र वेत्रासने बृहतीं वेलामुत्थितोऽहं यथेष्टचेष्टया, समागतः कलोपाध्यायः कथितं तस्मै राजदारकैर्मदीयं विलसितं क्रुद्धः स्वचेतसा, पृष्टोऽहमनेन, ततः सासूयं मयाऽभिहितं - अहमेतत्करोमि ?, अहो ते शास्त्रकौशलं अहो ते पुरुषविशेषज्ञता अहो ते विचारितभाषिता अहो ते विमर्शपाटवं यस्त्वमेतेषां मत्सरिणामसत्यवादिनां वचनेन विप्रतारितो मामेवमाभाषसे, ततो विलक्षीभूतः कलोपाध्यायः, चिन्तितमनेन न तावदेते राजदारका विपरीतं भाषन्ते, अयं तु स्वकर्मापराधमेवमपलपति तदेनं स्वयमुपलभ्य शिक्षयिष्यामि, अन्यदा प्रच्छन्नदेशस्थितेनावेक्षितोऽहं तेन महामतिना, दृष्टस्तत्र वेत्रासने सरभसमुपविष्टो ललमानः, ततः प्रकटीभूतोऽसौ दृष्टो मया, मुक्तं झगिति वेत्रासनं, | महामतिनाऽभिहितं इदानीं तर्हि भवतः किमुत्तरं ?, मयोतं कीदृशे प्रश्ने ?, महामतिराह तत्रैव पूर्वके, मयोक्तं न जानाम्यहं की
onal
For Private & Personal Use Only
गुरुपरि
भवः
॥ ३०५ ॥
jainelibrary.org