SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ उपमिती तृ. ३-प्र. कलाग्रहणेऽनृतमहिमा ॥३०४॥ तता विनयनम्रस्य, श्रुत्वा तातला नावबुध्यते ॥२२ ॥ यावच्च केलिया वयं नम्रो भविष्यात नूनमेप ममाग्रतः? ॥ १६॥ गुरुरन्यस्य लोकस्य, स्यादेष न तु मादृशाम् । अतो नाहं पताम्यस्य, पादयोः शास्त्रकाम्यया ॥ १७ ॥ केवलम्-भवतामनुरोधेन, गृह्णामि सकलाः कलाः । मदीयविनयो नूनमस्य स्यान्मातृलोहितम् ॥ १८॥ ततस्तातेन स प्रोक्तः, कलाचार्यो | रहःस्थितः । आर्य ! मामकपुत्रोऽयं, गाढं मानधनेश्वर ॥ १९॥ तत्र भवता नास्य, दृष्ट्वाऽप्यविनयादिकम् । चित्तोद्वेगो विधातव्यो, ग्राहणीयश्च सत्कलाः ॥२०॥ ततो विनयनम्रस्य, श्रुत्वा तातस्य जल्पितम् । यदादिशति राजेन्द्र, इत्याह स महामतिः ॥ २१॥ चिन्तितं च तदा तेन, कलाचार्येण मानसे । किलैष यावच्छात्रस्य, सद्भाव नावबुध्यते ॥२२॥ यावच्च केलिबहुला, बालतामनुवर्तते । अलीकगर्वितोष्मान्तस्तावदेवं प्रभाषते ॥२३॥ यदा तु ज्ञातसद्भावः, शास्त्रार्थानां भविष्यति । तदा मदं परित्यज्य, स्वयं नम्रो भविष्यति ॥२४॥ त्रिभिविशेषकम् । एवं निश्चित्य हृदये, कलाचार्यो महामतिः । ततः सर्वादरेणासौ, प्रवृत्तो पाहणे मम ॥ २५ ॥ इतश्चान्येऽपि तत्पार्श्वे, बहवो राजदारकाः । प्रशान्ता विनयोयुक्ता, गृह्णन्ति सकलाः कलाः ॥ २६ ॥ यथा यथा च मे नित्यमादरं कुरुते गुरुः । तथा तथा वयस्यो मे, शैलराजो विवर्धते ॥२७ ।। ततश्च तदशेनाहमुपाध्यायं मदोद्धतः । जात्या श्रुतेन रूपेण, हीलयामि क्षणे क्षणे ॥ २८ ॥ ततश्च चिन्तितं महामतिना, अये!—प्रस्तस्य सन्निपातेन, क्षीरान्नमिव सुन्दरम् । अपथ्योऽस्य वराकस्य, कलाशास्त्रपरिश्रमः॥ २९ ॥ गाढं कर्षितदेहस्य, यथाऽऽम्लं भूरि भोजनम् । तथाऽस्य मत्कृतो यत्नः, श्वयधुं वर्धयत्यलम् ॥ ३० ॥ ततो यद्यपि राजेन्द्रः, पुत्रस्नेहपरायणः । उत्साहयति मां नित्यं, गुणाधानार्थमस्य वै ॥ ३१ ॥ तथाप्यपात्रभूतोऽयं, य एवं रिपुदारणः । तस्य त्यागः परं न्याय्यो, ज्ञानदानं न युज्यते ॥३२॥ यो हि दद्यादपात्राय, संज्ञानममृतोपमम् । स हास्यः स्यात्सतां मध्ये, भवेच्चानर्थभाजनम् ॥३३॥ न चैष शक्यते कर्तु, नम्रो यत्नशतैरपि । को हि स्वेदशतेनापि, श्वपुच्छं नामयिष्यति ॥३४॥ ततश्चैवं स्वचेतस्यवधार्य तेन महामतिना कलाचार्येण ॥३०४॥ Jain Education For Private & Personel Use Only IMjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy