SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ उपमिती तृ. ३-प्र. कलाग्रहणेऽनृतमहिमा ॥३०४॥ तता विनयनम्रस्य, श्रुत्वा तातला नावबुध्यते ॥२२ ॥ यावच्च केलिया वयं नम्रो भविष्यात नूनमेप ममाग्रतः? ॥ १६॥ गुरुरन्यस्य लोकस्य, स्यादेष न तु मादृशाम् । अतो नाहं पताम्यस्य, पादयोः शास्त्रकाम्यया ॥ १७ ॥ केवलम्-भवतामनुरोधेन, गृह्णामि सकलाः कलाः । मदीयविनयो नूनमस्य स्यान्मातृलोहितम् ॥ १८॥ ततस्तातेन स प्रोक्तः, कलाचार्यो | रहःस्थितः । आर्य ! मामकपुत्रोऽयं, गाढं मानधनेश्वर ॥ १९॥ तत्र भवता नास्य, दृष्ट्वाऽप्यविनयादिकम् । चित्तोद्वेगो विधातव्यो, ग्राहणीयश्च सत्कलाः ॥२०॥ ततो विनयनम्रस्य, श्रुत्वा तातस्य जल्पितम् । यदादिशति राजेन्द्र, इत्याह स महामतिः ॥ २१॥ चिन्तितं च तदा तेन, कलाचार्येण मानसे । किलैष यावच्छात्रस्य, सद्भाव नावबुध्यते ॥२२॥ यावच्च केलिबहुला, बालतामनुवर्तते । अलीकगर्वितोष्मान्तस्तावदेवं प्रभाषते ॥२३॥ यदा तु ज्ञातसद्भावः, शास्त्रार्थानां भविष्यति । तदा मदं परित्यज्य, स्वयं नम्रो भविष्यति ॥२४॥ त्रिभिविशेषकम् । एवं निश्चित्य हृदये, कलाचार्यो महामतिः । ततः सर्वादरेणासौ, प्रवृत्तो पाहणे मम ॥ २५ ॥ इतश्चान्येऽपि तत्पार्श्वे, बहवो राजदारकाः । प्रशान्ता विनयोयुक्ता, गृह्णन्ति सकलाः कलाः ॥ २६ ॥ यथा यथा च मे नित्यमादरं कुरुते गुरुः । तथा तथा वयस्यो मे, शैलराजो विवर्धते ॥२७ ।। ततश्च तदशेनाहमुपाध्यायं मदोद्धतः । जात्या श्रुतेन रूपेण, हीलयामि क्षणे क्षणे ॥ २८ ॥ ततश्च चिन्तितं महामतिना, अये!—प्रस्तस्य सन्निपातेन, क्षीरान्नमिव सुन्दरम् । अपथ्योऽस्य वराकस्य, कलाशास्त्रपरिश्रमः॥ २९ ॥ गाढं कर्षितदेहस्य, यथाऽऽम्लं भूरि भोजनम् । तथाऽस्य मत्कृतो यत्नः, श्वयधुं वर्धयत्यलम् ॥ ३० ॥ ततो यद्यपि राजेन्द्रः, पुत्रस्नेहपरायणः । उत्साहयति मां नित्यं, गुणाधानार्थमस्य वै ॥ ३१ ॥ तथाप्यपात्रभूतोऽयं, य एवं रिपुदारणः । तस्य त्यागः परं न्याय्यो, ज्ञानदानं न युज्यते ॥३२॥ यो हि दद्यादपात्राय, संज्ञानममृतोपमम् । स हास्यः स्यात्सतां मध्ये, भवेच्चानर्थभाजनम् ॥३३॥ न चैष शक्यते कर्तु, नम्रो यत्नशतैरपि । को हि स्वेदशतेनापि, श्वपुच्छं नामयिष्यति ॥३४॥ ततश्चैवं स्वचेतस्यवधार्य तेन महामतिना कलाचार्येण ॥३०४॥ Jain Education For Private & Personel Use Only IMjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy