________________
उपमितौ तृ. ३-अ..
॥३०३॥
मृषावादजा विकल्पा :
विहितप्रतिपत्तिः स्थितस्तत्राहं कियन्तमपि कालं, महामोहविमोहितमानसेन च मया न लक्षितं तदा तेषां नगरराजेन्द्रमहादेवीदारकाणां सम्बन्धि स्वरूपं, गृहीतोऽपि परमबन्धुबुद्ध्या विशेषतः प्रतिपन्नो वयस्यतया मृषावादः, प्राप्तः प्रकर्षगतिं तेन सह प्रेमाबन्धः, दृष्टोऽसौ शरीरादभिन्नरूपतया, ततश्चानीतः स मया मृषावादः स्वस्थाने, ततस्तेन सह ललमानस्य मे समुत्पद्यन्ते स्म मनसीदृशा वितकोः, यदुत -नूनं विदितसारोऽहमहमेव विचक्षणः । शेषः सर्वः पशुप्रायो, मुग्धबुद्धिरयं जनः॥१॥ यस्य मे सर्वसम्पत्तिकारको मित्रतां गतः।। सर्वदाऽयं मृषावादः, स्नेहेन हृदि वर्तते ॥ २ ॥ असद्भूतपदार्थेऽपि, सद्बुद्धिं जनयाम्यहम् । सद्भूतमप्यसद्भूतं, दर्शयामि सुहृद्धलात् ॥ ३॥ कृतं प्रत्यक्षमप्युच्चैर्महासाहसमात्मना । वरमित्रप्रसादेन, लगयामि परे जने ॥४॥ चौर्य वा पारदार्य वा, कुर्वतोऽपि यथेच्छया । कुतो|ऽपराधगन्धोऽपि, मम यावदयं सुहृत् ? ॥ ५॥ स्वार्थसिद्धिः कुतस्तेषां ?, येषामेष न विद्यते । अतो मूर्खा अमी लोकाः, स्वार्थभ्रंशो हि मूर्खता ॥ ६ ॥ विग्रहेऽपि कचित्सन्धि, सन्धावपि च विग्रहम् । मृषावादप्रसादेन, घटयामि यथेच्छया ॥ ७ ॥ यत्किञ्चिच्चिन्तयाम्यत्र, वस्तु लोकेऽतिदुर्लभम् । वरमित्रप्रसादेन, सर्व संपद्यते मम ॥ ८ ॥ मया पुण्यैरवाप्तोऽयमयमेव च मे सुहृत् । एष एव जगद्वन्द्यो, यथेष्टफलदायकः ॥ ९॥ ततोऽगृहीतसङ्केते!, मया मोहहतात्मना । कुविकल्पैर्मनस्तत्र, मृषावादे प्रतिष्ठितम् ॥ १०॥ तद्वशेन च येऽनर्थाः, संपद्यन्तेऽतिदारुणाः । पुण्योदयप्रभावेण, ते यान्ति विलयं तदा ॥ ११ ॥ अहं तु तन्न जाने स्म, महामोहवशं गतः । ततस्तत्र मृषावादे, पश्यामि गुणमालिकाम् ॥ १२ ॥ एवं च वर्तमानस्य, वयस्यद्वययोगतः । कलाग्रहणकालो मे, संप्राप्तः क्रमशोऽन्यदा ॥ १३ ॥ ततस्तातेन संपूज्य, कलाचार्य विधानतः । तस्यार्पितोऽहं सद्भक्त्या, महानन्दपुरःसरम् ॥ १४ ॥ उक्तश्चाहं गुरुः पुत्र!, तवायं ज्ञानदा-| यकः । अतः पादौ प्रणम्यास्य, शिष्यभावं समाचर ॥ १५ ॥ मयोक्तं तात! मुग्धोऽसि, यो मामेवं प्रभाषसे । वराकः किं विजानीते,
कलाग्रहणेऽनृतमहिमा
॥३०३॥
50-25
Jain Education
a
l
For Private Personel Use Only
jainelibrary.org