SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ उपमितौ ॥३०२॥ प्रभावः ? इति श्रोतुमिच्छामि, शैलराजेनाभिहितं-कुमार! न कुतश्चिदपि तदवाप्तं मया, किं तर्हि ?, स्वकीयेनैव वीर्येण जनितं, नामतः स्तब्धचिपुनः स्तब्धचित्तं तदभिधीयते, प्रभावं तस्यानुभवद्वारेणैव विज्ञास्यति कुमारः, किं तेनावेदितेन?, मयाऽभिहितं यद्वयस्यो जानीते, ततः त्ताख्यमसमर्पितं ममान्यदा शैलराजेन तदात्मीयं हृदयावलेपनं, विलिप्तं मया हृदयं, जातोऽहं गाढतरमुल्लम्बितशूनतस्कराकारधारितया नमनर वलेपनं हितः, ततस्तथाभूतं मामवलोक्य सुतरां प्रणतिप्रवणाः संपन्नाः सामन्तमहत्तमादयः, तातोऽपि सप्रणामं मामालापयति स्म, तथाऽम्बाऽपि |स्वामिनमिव मां विज्ञपयति स्म, ततः संजातो मे हृदयावलेपनप्रभावे सम्प्रत्ययः, संपन्ना स्थिरतरा शैलराजे परमबन्धुबुद्धिरिति ।। इतश्वान्यदा गतोऽहमन्तरङ्गे क्लिष्टमानसाभिधाने नगरे, तच्च कीदृशं ?,-आवासः सर्वदुःखानां, नष्टधमैनिषेवितम् । कारणं सर्वपापानां, दुर्गतिद्वारमञ्जसा॥१॥तत्र च नगरे दुष्टाशयो नाम राजा, स च कीदृशः?,-उत्पत्तिभूमिर्दोषाणामाकरः क्लिष्टकर्मणाम् । सद्विवेकनरेन्द्रस्य, मृषावादमहारिः स नराधिपः ।। २ ॥ तस्य च राज्ञो जघन्यता नाम देवी, सा च कीदृशी?, नराधमानां साऽभीष्टा, विद्वद्भिः परिनिन्दिता । स्तत्कुटु प्रवर्तिका च सा देवी, सर्वेषां निन्द्यकर्मणाम् ॥३॥ तयोश्च जघन्यतादुष्टाशययोर्देवीनृपयोरत्यन्तमभीष्टोऽस्ति मृषावादो नाम तनयः, स म्बं च |च कीदृशः?,-समस्तभूतसङ्घस्य, विश्वासच्छेदकारकः । निःशेषदोषपुखत्वाद्गर्हितश्च विचक्षणैः ॥ ४॥ शाठ्यपैशुन्यदौर्जन्यपरद्रोहादित|स्कराः । तं राजपुत्रं सेवन्ते, सदनुग्रहकाम्यया ॥ ५ ॥ स्नेहो मैत्री प्रतिज्ञा च, तथा सम्प्रत्ययश्च यः । एतेषां शिष्टलोकानां, राजसूनुरसौ रिपुः ॥ ६ ॥ पिताऽसौ व्रतलोपस्य, मर्यादाया महारिपुः । अयशोवादतूर्यस्य, सदास्फालनतत्परः ॥ ७॥ ये केचिन्नरकं यान्ति, | तस्य निर्देशकारिणः । स एव प्रगुणं मार्ग, तेषां दर्शयितुं क्षमः ॥ ८॥ ततो दृष्टोऽसौ मया दुष्टाशयो नरेन्द्रः, तत्पार्श्ववर्तिनी च विलो-18 ॥३०२॥ किता सा जघन्यता महादेवी, तयोश्चाग्रतो वर्तमानो निर्वर्णितो मया तयोरेव चरणशुश्रूषाकरणपरायणः स मृषावादो राजदारकः, ततो15 Jain Education anal For Private & Personel Use Only XMw.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy