SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥३०१॥ कुमारशै लराजयोरालाप: यदहं वच्मि तत्सर्वो, राजलोकः कृतादरः । जय देवेतिलपन्नुच्चैः, शिरसा प्रतिपद्यते ॥ ५४ ॥ किं चात्र बहुनोक्तेन?, तातोऽम्बा च स-3 बान्धवा । वीक्षते सर्वकार्येष्वधिकं मां परमात्मनः ॥ ५५ ॥ स च पुण्योदयस्तत्र, माहात्म्ये मम कारणम् । तथापि मोहदोषेण, मयेदं परिचिन्तितम् ॥ ५६ ॥ अयं ममैष यो जातो, देवानामपि दुर्लभः । सर्वस्यास्य प्रतापस्य, शैलराजो विधायकः ॥ ५७ ॥ ततः संतुष्टचित्तेन, शैलराजो मयाऽन्यदा । प्रोक्तो विश्रम्भजल्पेन, स्नेहनिर्भरचेतसा ॥ ५८ ॥ वयस्य ! योऽयं संपन्नो, लोकमध्येऽतिसुन्दरः । मम ख्यातिविशेषोऽयं, प्रतापो हन्त तावकः ।। ५९ ॥ ततश्व-मदीयवचसा तुष्टः, शैलराजः स्वमानसे । वष्टतामुररीकुर्वन्निदं वचनमब्रवीत् ॥६०। कुमार! परमार्थोऽयं, कथ्यते तव साम्प्रतम् । यदेवंविधजल्पस्य, कुमारस्येह कारणम् ।। ६१ ।। ये दुर्जना भवन्त्यत्र, गुणपूर्ण परं जनम् । स्वाभिप्रायानुमानेन, मन्यन्ते दोषपुचकम् ।। ६२ ॥ ये सज्जना पुनर्धन्यास्ते लोकं दोषपूरितम् । स्वाभिसन्धिविशुद्ध्यैव, लक्षयन्ति गुणालयम् ।। ६३ ।। एवं च स्थिते-यद्भासते गुणित्वेन, गुणहीनोऽप्ययं जनः । कुमार! तावके चित्ते, सौजन्यं तत्र कारणम् ॥ ६४ ॥ प्रतापस्तावकीनोऽयं, समस्तोऽपि सुनिश्चितम् । भावत्कवीर्यविख्याताः, के वयं परमार्थतः ॥ ६५ ॥ तदिदं शैलराजीयं, वचनं सुमनोहरम् । आकाहं तदा भद्रे !, परं स्नेहरसं गतः॥६६॥ चिन्तितं च मया-अहो मय्यनुरागोऽस्य, अहो गम्भीरचित्तता। अहो वचनविन्यासस्तथाऽहो भावसारता ।। ६७ ॥ ततो मयाऽभिहितं वयस्य ! नेदृशं वाच्यमुपचारपरं वचः । ममाग्रतो यतो ज्ञातं, माहात्म्यं तावकं मया ॥ ६८ ॥ ततो हर्षवशात्तेन, शैलराजेन जल्पितम् । प्रसादपरमे नाथे, भृत्यानां किं न सुन्दरम् ॥ ६९ ।। अन्यच्च-यदि सम्भावना जाता, भवतां मादृशे जने । ततो मे परमं गुह्यं, भवद्भिरनुमन्यताम् ॥ ७० ॥ विद्यते मम सद्बीर्य, हृदयस्या- ॐ वलेपनम् । तन्निजे हृदये देयं, कुमारेण प्रतिक्षणम् ।। ७१॥ मयाऽभिहितं, कुतस्तवाप्तं भवता? किंनामकं? को वा तस्य हृदयावलेपनस्य ॥३०१॥ उ. भ. २६ Jain Educatio n al For Private & Personel Use Only Friwww.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy