________________
उपमितौ तृ. ३-प्र.
॥३०१॥
कुमारशै
लराजयोरालाप:
यदहं वच्मि तत्सर्वो, राजलोकः कृतादरः । जय देवेतिलपन्नुच्चैः, शिरसा प्रतिपद्यते ॥ ५४ ॥ किं चात्र बहुनोक्तेन?, तातोऽम्बा च स-3 बान्धवा । वीक्षते सर्वकार्येष्वधिकं मां परमात्मनः ॥ ५५ ॥ स च पुण्योदयस्तत्र, माहात्म्ये मम कारणम् । तथापि मोहदोषेण, मयेदं परिचिन्तितम् ॥ ५६ ॥ अयं ममैष यो जातो, देवानामपि दुर्लभः । सर्वस्यास्य प्रतापस्य, शैलराजो विधायकः ॥ ५७ ॥ ततः संतुष्टचित्तेन, शैलराजो मयाऽन्यदा । प्रोक्तो विश्रम्भजल्पेन, स्नेहनिर्भरचेतसा ॥ ५८ ॥ वयस्य ! योऽयं संपन्नो, लोकमध्येऽतिसुन्दरः । मम ख्यातिविशेषोऽयं, प्रतापो हन्त तावकः ।। ५९ ॥ ततश्व-मदीयवचसा तुष्टः, शैलराजः स्वमानसे । वष्टतामुररीकुर्वन्निदं वचनमब्रवीत् ॥६०। कुमार! परमार्थोऽयं, कथ्यते तव साम्प्रतम् । यदेवंविधजल्पस्य, कुमारस्येह कारणम् ।। ६१ ।। ये दुर्जना भवन्त्यत्र, गुणपूर्ण परं जनम् । स्वाभिप्रायानुमानेन, मन्यन्ते दोषपुचकम् ।। ६२ ॥ ये सज्जना पुनर्धन्यास्ते लोकं दोषपूरितम् । स्वाभिसन्धिविशुद्ध्यैव, लक्षयन्ति गुणालयम् ।। ६३ ।। एवं च स्थिते-यद्भासते गुणित्वेन, गुणहीनोऽप्ययं जनः । कुमार! तावके चित्ते, सौजन्यं तत्र कारणम् ॥ ६४ ॥ प्रतापस्तावकीनोऽयं, समस्तोऽपि सुनिश्चितम् । भावत्कवीर्यविख्याताः, के वयं परमार्थतः ॥ ६५ ॥ तदिदं शैलराजीयं, वचनं सुमनोहरम् । आकाहं तदा भद्रे !, परं स्नेहरसं गतः॥६६॥ चिन्तितं च मया-अहो मय्यनुरागोऽस्य, अहो गम्भीरचित्तता। अहो वचनविन्यासस्तथाऽहो भावसारता ।। ६७ ॥ ततो मयाऽभिहितं वयस्य ! नेदृशं वाच्यमुपचारपरं वचः । ममाग्रतो यतो ज्ञातं, माहात्म्यं तावकं मया ॥ ६८ ॥ ततो हर्षवशात्तेन, शैलराजेन जल्पितम् । प्रसादपरमे नाथे, भृत्यानां किं न सुन्दरम् ॥ ६९ ।। अन्यच्च-यदि सम्भावना जाता, भवतां मादृशे जने । ततो मे परमं गुह्यं, भवद्भिरनुमन्यताम् ॥ ७० ॥ विद्यते मम सद्बीर्य, हृदयस्या- ॐ वलेपनम् । तन्निजे हृदये देयं, कुमारेण प्रतिक्षणम् ।। ७१॥ मयाऽभिहितं, कुतस्तवाप्तं भवता? किंनामकं? को वा तस्य हृदयावलेपनस्य
॥३०१॥
उ. भ. २६
Jain Educatio
n
al
For Private & Personel Use Only
Friwww.jainelibrary.org