SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. ॥३० ॥ यदिवा–यस्येदृशेन मित्रेण, संजातो मम मीलकः । तस्य को वर्णयेल्लोके, गुणसम्भारगौरवम् ? ॥ ३५ ॥ तथाहि-पुरुषस्य भवेत्तावत्सर्वस्यैकमिहाननम् । अयं वक्राष्टकेनैव, जयत्येव परं जनम् ॥ ३६ ॥ तदेष शैलराजो मे, यस्य प्राप्तो वयस्यताम् । तस्य नास्ति जगत्यत्र, यन्न संपन्नमञ्जसा ।। ३७ ॥ ततोऽवलिप्तचित्तोऽहं, तां विकल्पपरम्पराम् । वर्धयन्नात्मनः सर्व, न्यूनं मन्ये तदा जनम् ॥ ३८ ॥ ऊर्वीकृतनिजग्रीवो, नक्षत्राणि निभालयन् । अग्रतोऽपि न पश्यामि, मत्तवद्गन्धवारणः ।। ३९ । आपू! भूरिवातेन, विततात्मा यथा | दृतिः । ततोऽहं विचरामि स्म, निःसारो मदविह्वलः ॥ ४० ॥ चिन्तयामि न मे वन्द्यः, कश्चिदस्ति जगत्रये । यत एतद्गुणैः सर्वमध-1 ४ स्तान्मम वर्तते ॥ ४१ ॥ को ममान्यो गुरुर्नूनमहमेव गुणैर्गुरुः । क एते देवसङ्घाता?, ये मत्तोऽपि गुणाधिकाः ॥ ४२ ॥ ततोऽगृहीत| सङ्केते !, तदाऽहं गर्वनिर्भरः । शैलस्तम्भसमो नैव, कस्यचित्प्रणतिं गतः ॥ ४३ ॥ किं च-प्रणताशेषसामन्तकिरीटांशुविराजितम् । न| नतं जातुचिद्भद्रे !, तातीयं पादपङ्कजम् ॥ ४४ ॥ अशेषजनवन्द्याऽपि, स्नेहनिर्भरमानसा । कदाचिदपि नैवाम्बा, मया नूनं नमस्कृता ॥ ४५ ॥ ये केचिल्लौकिका देवा, याश्चान्याः कुलदेवताः । न ताः प्रणामकामेन, चक्षुषाऽपि मयेक्षिताः ।। ४६ ॥ ततो मां तादृशं | वीक्ष्य, शैलराजसमन्वितम् । वर्धमानं स राजेन्द्रो, मनसा पर्यचिन्तयत् ॥ ४७॥ अहो मदीयपुत्रोऽयं, गाढं मानधनेश्वरः । तदस्य | लोको यद्याज्ञां, लङ्घयेत कदाचन ॥४८॥ ततोऽयं चित्तनिर्वेदान्मन्यमानोऽवधीरणाम् । मां विहाय क्वचिद्गच्छेत्तदिदं नैव सुन्दरम् | ॥ ४९ ॥ ज्ञापयित्वा नरेन्द्रादीन , कुमारचरितं ततः । आज्ञाविधेयानस्योच्चैः, करोमि सकलानपि ॥ ५० ॥ एवं विचिन्त्य मे तातः, स्नेहनिर्भरमानसः । समस्तं तत्करोत्येव, यत्स्वयं परिचिन्तितम् ॥ ५१॥ अथ ताताज्ञया सर्वे, नरेन्द्रा नतमस्तकाः । बालस्यापि ममात्यन्तं, किङ्करत्वमुपागताः ॥ ५२ ।। प्रधानकुलजाता ये, ये च विक्रमशालिनः । तेऽपि मां देव देवेति, ब्रुवाणाः पर्युपासते ॥ ५३॥ नरवाहनकृतानुकूलता ॥३० ॥ Jain Education a l For Private & Personel Use Only R ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy