________________
उपमिती च. ४-प्र.
॥ २९९॥
शैलराजजन्म
दुष्टदारकम् । उन्नामितमहोरस्कं, वदनाष्टकधारकम् ॥ १५॥ तं वीक्ष्य सा विशालाक्षी, परं हर्षमुपागता । ततश्च चिन्तयत्येवं, स्तिमितेनान्तरात्मना ।। १६ ॥ अहो मदीयपुत्रस्य, कूटानि सुगिरेरिव । मूर्धानोऽष्ट विराजन्ते, तदिदं महदद्भुतम् ।। १७ ।। ततः साऽपि गते मासे, निजसूनोर्गुणोचितम् । करोति नाम विख्यातं, शैलराज इति स्फुटम् ॥ १८ ॥ इतश्व-सा धात्री स च तत्सूनुरनादावपि स-| वंदा । ममान्तरङ्गोऽभूदेव, तिरोभूततया परम् ॥ १९ ॥ ततः पित्रोर्महानन्द, दधानः सुखलालितः । सहैव शैलराजेन, परां वृद्धिमहं| गतः ॥ २० ॥ अथातीतेषु वर्षेषु, पञ्चषेषु ततो मया । स व्यक्तं रममाणेन, शैलराजो निरीक्षितः ॥ २१ ॥ अनादिस्नेहमोहेन, तं दृष्ट्वा मम मानसे । या प्रीतिरासीत्साऽऽख्यातुं, वचनेन न पार्यते ॥ २२ ॥ विलोकयन्तं मां वीक्ष्य, स्निग्धदृष्ट्या स दारकः । शठात्मा चिन्त-| यत्येवं, लब्धलक्ष्यः स्वचेतसा ।। २३ ॥ अये! मामेष राजेन्द्रतनयः स्निग्धचक्षुषा । विलोकयति तन्नून, ममायं वर्तते वशे ।। २४ ॥ ततो विस्मेरिताक्षोऽसौ, किलाहं स्नेहनिर्भरः । दर्शयन्निति मे देहं, समालिङ्गति मायया ॥ २५ ॥ ततो मे मोहदोषेण, स्फुरितं निजमानसे । अहो भावज्ञताऽप्यस्य, त्रैलोक्यमतिवर्तते ॥ २६ ॥ तदिदानी मया नैष, स्निग्धो बन्धुर्विचक्षणः । मोक्तव्यः क्षणमप्येवं, कृतश्चित्ते विनिश्चयः ॥ २७ ॥ ततस्तेन सहोद्यानकाननेषु दिने दिने । क्रीडतः सततं याति, कालो मे हृष्टचेतसः॥ २८ ॥ न लक्षितं मया मोहविह्वलीभूतचेतसा । यथैष शैलराजो मे, परमार्थेन वैरिकः ।। २९ ।। ततो दिनेषु गच्छत्सु, मैत्री तेन विवर्धते । तत्प्रभावात्प्रवर्धन्ते, वितर्का मम मानसे ॥ ३० ॥ यथा ममोत्तमा जातिः, कुलं सर्वजनाधिकम् । बलं भुवनविख्यातं, रूपं भुवनभूषणम् ।। ३१ ।। सौभाग्यं जगदानन्दमैश्वर्यं भुवनातिगम् । श्रुतं पूर्वभवाभ्यस्तं, परिस्फुरति मेऽग्रतः ।। ३२ ॥ मघवाऽपि पदं स्वीयं, यद्यहं प्रार्थये ततः । ददात्येव न कार्य मे, लाभशक्तिरियं मम ॥ ३३ ॥ ये चान्येऽपि तपोवीर्यधैर्यसत्त्वादयो गुणाः । ते मय्येव वसन्त्युच्चैर्विमुच्य भुवनत्रयम् ॥३४॥
| मैत्री उभयोः
शैलराज
| कृतावि
कल्पाः ॥२९९॥
Jain Education
a
l
For Private & Personel Use Only
A
ainelibrary.org