SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ उपमितौ लिम्बना स्वीकृतो महादुःखसन्तानः, तदिदमनुभवागमसिद्धमनुभवन्तोऽप्येते मनुष्यभावापन्नाः प्राणिनो न लक्षयन्तीवानयोः स्वरूपं, आतृ. ३-प्र. त्मवैरिण इव समाचरन्ति तमेव क्रोधं, तामेव हिंसां सततमनुवर्तन्ते, तदेतेऽपि वराका लप्स्यन्ते नूनमेवंविधामनर्थपरम्परामित्येषा चिन्ता ममान्त:करणमाकुलयति, संसारिजीवः प्राह-ततः पुनरन्यदाऽहमगृहीतसङ्केते! नीतः श्वेतपुरे भवितव्यतया विहितश्चाभीररूपः, तद्रू-18 सपुण्योद॥२९७॥ लापतया वर्तमानस्य मे तिरोभूतोऽसौ वैश्वानरः, जातो मनागहं शान्तरूपः, प्रवृत्ता मे यदृच्छया दानबुद्धिः, न चाभ्यस्तं किञ्चिद्विशिष्टं| यस्य श्वेत शीलम् , न चानुष्ठितः कश्चित्संयमविशेषः, केवलं कथञ्चिद्घर्षणघूर्णनन्यायेन संपन्नोऽहं तदा मध्यमगुणः, ततस्तथाभूतं मामुपलभ्य जाता पुरेऽवतारः मयि प्रसन्नहृदया भवितव्यता, ततश्चाविर्भावितोऽनया पुनरपि सहचरो मे पुण्योदयः, ततोऽभिहितमनया-आर्यपुत्र! गन्तव्यं भवता सिद्धार्थपुरे, स्थातव्यं तत्र यथासुखासिकया, अयं च तवानुचरः पुण्योदयो भविष्यति, मयाऽभिहितं यदाज्ञापयति देवी, ततो जीर्णायां | प्राचीनगुटिकायां दत्ता पुनरेकभववेद्या सा ममापरा गुटिका भवितव्यतयेति । भो भव्याः प्रविहाय मोहललितं युष्माभिराकर्ण्यतामेका-I न्तेन हितं मदीयवचनं कृत्वा विशुद्धं मन: । राधावेधसमं कथञ्चिदतुलं लब्ध्वाऽपि मानुष्यकं, हिंसाक्रोधवशानुगैरिदमहो जीवैः पुरा हारितम् ॥ १॥ अनादिसंसारमहाप्रपञ्चे, क्वचित्पुनः स्पर्शवशेन मूढः । अनन्तवारान् परमार्थशून्यैर्विनाशितं मानुषजन्म जीवैः ॥२॥ एतन्निवेदितमिह प्रकटं ततो भोः !, तां स्पर्शकोपपरताऽपमतिं विहाय । शान्ताः कुरुध्वमधुना कुशलानुबन्धमह्नाय लङ्घयथ येन भवप्रपञ्चम् P ॥२९७॥ ॥३॥ इत्युपमितभवप्रपञ्चायां कथायां क्रोधहिंसास्पर्शनेन्द्रियविपाकवर्णनस्तृतीयः प्रस्तावः॥३॥ ग्रंथाग्रं०८०००। Jain Education sa For Private & Personel Use Only SMw.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy