SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ SCAM धराधरेण युद्धं मृतिः संसारभ्रमश्च उपमितौ खानि, ततः पुनरानीय पञ्चाक्षनिवासनगरे विहितौ द्वावपि सिंहरूपौ, तत्रापि तदवस्थितो वैराबन्धः, ततश्चान्योऽन्यं प्रहरतोरपनीय तृ. ३-प्र. तद्रूपं विहितं तस्यामेव पुर्या पङ्कप्रभाख्ये चतुर्थपाटके पापिष्टरूपं भवितव्यतया, तद्गतयोः पुनरप्यावयोरनुवर्तते स्मासौ रोपोत्कर्षः, लचि- तानि तत्रापीतरेतरं निघ्नतोर्दश सागरोपमाणि, सोढानि वाग्गोचरातीतानि दुःखानि, ततः पुनरानीय जनितौ द्वावपि श्येनरूपौ, संलग्न॥२९६॥ मुल्लसितवैश्वानरयोरायोधनं, ततझ्यावयित्वा तद्रूपं पुनीतो तस्यामेव पुरि वालुकाप्रभानाम्नि तृतीयपाटके गुटिकाप्रयुक्तिवशेनैव भवितव्यतया, तत्रापि परस्परं शरीरचूर्णनं कुर्वतोः क्षेत्रानुभावजनितानि परमाधार्मिकासुरोदीरितानि चानन्तदुःखानि सततमनुभवतोरतिक्रान्तानि सप्त सागरोपमाणि, तदन्ते पुनरानीतौ पञ्चाक्षनिवासनगरे दर्शितौ च नकुलरूपौ भवितव्यतया, न त्रुटितस्तत्रापि परस्परं मत्सरप्रकर्षः, प्रहरतोश्चान्योऽन्यं विदीर्णे द्वयोरपि शरीरे, जीर्णे प्राचीनगुटिके, वितीर्णे पुनरपरे, नीतौ पुनस्तस्यामेव नगर्या शर्कराप्रभाभि धाने द्वितीयपाटके, ततो विहितबीभत्सरूपयोरन्योन्यं पिंपतोः परमाधार्मिककदर्थनां क्षेत्रजनितसन्तापं च वेदयतोरतीतानि तत्रापि त्रीणि दिसागरोपमाणि, एवं पापिष्ठनिवासनगर्याः पञ्चाक्षनिवासनगरे ततोऽपि पुनस्तस्यां गत्यागमनं कुर्वता तेन च धराधरेण साधं वैरं खेटयता | भद्रे ! अगृहीतसङ्केते ! विडम्बितानि मया भवितव्यताप्रेरितेन भूयांसि रूपाणि, ततः पुनः कुतूहलवशेनैव तया निजभार्यया जीर्णायां तस्यामेकभववेद्याभिधानायां कर्मपरिणाममहाराजसमर्पितायां गुटिकायां भूयो भूयो परापरां गुटिकां योजयन्त्या तदसंव्यवहारनगरं विहायापरेषु प्रायेण सर्वस्थानेषु तिलपीडकन्यायेन भ्रमितोऽहमनन्तकालमिति, एवं वदति संसारिजीवे प्रज्ञाविशालया चिन्तितं-अहो रौद्ररूपोऽसौ क्रोधः, दारुणतरा हिंसा, तथाहि-तद्वशवर्तिनाऽनेन संसारिजीवेन घोरं संसारसागरं कथञ्चिदतिलञ्चय प्राप्तेऽपि मनुष्यभवे विहितं तत्तादृशमतिरौद्रं कर्म न प्रतिपन्नं भागवतं वचनं हारिता मनुष्यरूपता निर्वर्तिता वैरपरम्परा उपार्जिता संसारसागरेऽनन्तरूपा विड ॥२९ ॥ Jan Education For Private Personel Use Only Jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy