________________
उपमिती तृ. ३-अ.
॥२९५॥
बन्धनमोचनार्थ नागवतं वचनं, नि
तसा किम
जिताः प्रवचनोक्तेन विधिना सर्वेऽप्युपस्थितलोका भगवता, विहिता भवप्रपञ्चनिर्वेदजननी परमपदाभिलाषातिरेकसंवर्धनी धर्मदेशना, नन्दिवर्धगता यथास्थानं देवादयः। मम पुनरगृहीतसङ्केते! तदमृतकल्पमपि न परिणतं तदा भागवतं वचनं, निकटीभूतौ हिंसावैश्वानरौ, कृतः
नमोक्षः पुनस्ताभ्यां मम शरीरेऽनुप्रवेशः, मोचितश्चाहं बन्धनात् सर्वजन्तूनां बन्धनमोचनार्थ नियुक्तै राजपुरुषैः, चिन्तितं च मया-विगोपि| तोऽहमनेन लोकमध्ये श्रमणेन, ततो धमधमायमानश्चेतसा किमत्र स्थितेनेति मन्यमानः प्रवृत्तो विजयपुराभिमुखो गन्तुं, लक्विन्तः कियानपि मागेः, इतश्च तत एव विजयपुराच्छिखरिनृपतेः सूनुमत्कल्प एव हिंसावैश्वानरदोषेण निर्वासितः स्वविषयाजनकेन दृष्टो मयाऽरण्ये
दाधराधरेण |प्रातिपथिको धराधरो नाम तरुणः, पृष्टो मया विजयपुरमार्ग, ततः पर्याकुलतया चित्तस्य न श्रुतं तेन मद्वचनं, मया चिन्तितं-परि
युद्धं मृतिः भवबुद्ध्या मामेष न गणयति, ततः समुल्लसितौ मे हिंसावैश्वानरौ, गृहीता तत्कटीतटादसिपुत्रिका, ततस्तेनापि विस्फुरितहिंसावैश्वानरेणैव
संसारसमाकृष्टं मण्डलायं, दत्तौ समकमेव द्वाभ्यामपि प्रहारौ, दारिते शरीरे, अत्रान्तरे मम तस्य च जीर्णा सा एकभववेद्या गुटिका, ततो वितीर्णे
भ्रमश्च अपरे गुटिके द्वयोरपि भवितव्यतया, इतश्चास्ति पापिष्ठनिवासा नाम नगरी, तस्यामुपर्युपरि सप्त पाटका भवन्ति, तेषु च पापिष्ठाभिधाना एव कुलपुत्रका वसन्ति, ततः षष्ठे तमःप्रभाभिधाने पाटके नीतौ द्वावपि गुटिकाप्रभावेण भवितव्यतया, स्थापितौ तादृशकुलपुत्रकरूपतया, प्रवृद्धः सोऽधिकतरमावयोवैरानुबन्धः, स्थितौ परस्परघातमनेकयातनाभिर्विदधानौ द्वाविंशतिं सागरोपमाणि, अवगाहितोऽनन्तमहादुःखसागरः, ततस्तस्याः पर्यन्ते गुटिकादानद्वारेणैवानीतौ पञ्चाक्षनिवासनगरे द्वावपि भवितव्यतया, विहितौ गर्भजसर्परूपौ, प्रादुभूतः पूर्वावेधेन परस्परं पुनः क्रोधाबन्धः, युध्यमानयोः संपन्नं गुटिकाजरणं, पुनः प्रापितौ तेनैव प्रयोगेण तस्यामेव पापिष्ठनिवासायां नगर्या धूमप्रभाभिधाने पञ्चमे पाटके भवितव्यतया, तत्रापि परस्परं निर्दलयतोर्गतानि सप्तदश सागरोपमाणि, अनुभूतान्यतितीव्रदुः
॥२९५।।
Jain Education
a
l
For Private & Personel Use Only
wwwjainelibrary.org