SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥२९३॥ सूरिराह-महाराज! सम्यग्ज्ञातमिदं त्वया । महामोहं विना को वा, कुर्यादेवं सकर्णकः? ॥ ३२ ॥ राजाऽऽह-यो न शक्नोति, कर्तु। नाथ! निबर्हणम् । द्वितीयस्य कुटुम्बस्य, कथञ्चिच्छक्तिविभ्रमात् ॥ ३३ ॥ तृतीयस्य परित्यागात्तस्य किं जायते फलम् । यथोक्तं ? यदिवा नेति, तथेदं प्रविवेचय ॥ ३४ ॥ सूरिराह-महाराज!, यो न हन्ति द्वितीयकम् । तृतीयत्यजनं तस्य, नूनमात्मविडम्बनम् ॥ ३५॥ तृतीयं हि परित्यज्य, यदि हन्यान्निराकुलः । द्वितीयमेवं तत्त्यागः, सफलो विफलोऽन्यथा ॥ ३६ ॥ नृपतिनाऽभिहितम्-भदन्त ! यद्येवं द्वितीयततः-भवप्रपञ्चं विज्ञाय, महाघोरं सुदुस्तरम् । अवाप्य मानुषं जन्म, संसारेऽत्यन्तदुर्लभम् ॥ ३७ ॥ अनन्तानन्दसंपूर्ण, मोक्षं विज्ञाय || ल त्यागेतृतीतत्त्वतः । तस्य कारणभूतं च, बुवा जैनेन्द्रशासनम् ॥ ३८ ॥ युष्मादृशेषु नाथेषु, प्राप्तेषु हितकारिषु । कुटुम्बत्रयरूपे च, विज्ञाते पर यत्यागस्य मार्थतः ॥ ३९॥ को नामाऽऽद्यकुटुम्बस्य, पुरुषो हितकामुकः । कुर्यान्न पोषणं नाथ!, बन्धुभूतस्य तत्त्वतः ? ॥ ४० ॥ विघ्नं सर्वस सफलता मृद्धीनां, सर्वव्यसनकारणम् । द्वितीयं वा न को हन्ति, शत्रूभूतं कुटुम्बकम् ? ॥४१॥ येनात्यक्तेन दुःखौघस्त्यक्तेन परमं सुखम् । को न त्यजति तन्नाथ !, तृतीयं वा कुटुम्बकम् ? ॥ ४२ ॥ सूरिराह-महाराज!, ज्ञाततत्त्वेन जन्तुना । इदमेवात्र कर्तव्यं, त्रयं संसारभी-| रुणा ॥ ४३ ॥ राजाहाज्ञाततत्त्वानां, नाथ! मौनीन्द्रशासने । किं विद्यतेऽधिकारोऽत्र !, नेति नेति गुरोर्वचः ।। ४४ ॥राज्ञा चिन्ति राज्ञोऽतितम-अये ! विज्ञाततत्त्वोऽहं, श्रद्धाक्षालितमानसः । ततोऽस्ति मेऽधिकारोऽत्र, गुरूक्ते कर्मणि ध्रुवम् ।। ४५ ।। ततो राजा समुद्भतवीर्यो-II निघृणलासो यतीश्वरम् । प्रणम्य पादयोरेवं, स प्राह विहिताजलिः ॥ ४६॥ यदादिष्टं भदन्तेन, किल कर्मातिनिघृणम् । तदहं कर्तुमिच्छामि, नाथ! युष्मदनुज्ञया ।। ४७ ॥ सूरिणोक्तं-महावीये!, युक्तमेतद्भवादृशाम् । अनुज्ञातं मयाऽपीदं, ज्ञातं तत्त्वं त्वयाऽधुना ॥ ४८ ॥ ततः। सरभसेन नरपतिना विलोकितं पार्श्ववर्तिनो विमलमतेर्मत्रिणो वदनं, आदिशतु देव इति ब्रुवाणोऽसौ स्थितः प्रह्वतया, नृपतिनाऽभिहितं ॥२९३ ॥ Jain Educatio n For Private & Personal Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy