________________
उपमिती तृ. ३-प्र.
साधोरतिनिघृणंकर्म
॥२९२॥
"बाधकं नैव, तहितीयं कुटुम्बकम् ॥ १४ ॥ अन्यच्च पोषकं ज्ञात्वा, द्वितीयस्य तृतीयकम् । राजन्नेतैः परित्यक्त, सर्वथैव कुटुम्बकम् ।।१५।। "यावत्तृतीयं न त्यक्तं, तावज्जेतुं न शक्यते । द्वितीयमपि कात्स्न्येन, पुरुषेण कुटुम्बकम् ॥ १६ ॥ अतो यद्यस्ति ते वाञ्छा, भूप! संसा"रमोचने । ततोऽतिनिघृणं कर्म, मयोक्तमिदमाचर ॥ १७ ॥ केवलं सम्यगालोच्य, मध्यस्थेनान्तरात्मना । किं शक्येत मया कर्तुं ?, किं"वा नेदमिति त्वया ॥ १८ ॥ एतेऽतिनिघृणाः कर्म, कथञ्चिदिदमीदृशम् । कुर्वन्त्यभ्यासयोगेन, नृशंसा भूप! साधवः ॥ १९॥ अन्येन "पुनरीक्षं, कर्म बन्धुदयालुना । चिन्तयितुमपि नो शक्यं, करणं दूरतः स्थितम् ॥ २० ॥ किं तु योऽयं त्यागस्तृतीयस्य, द्वितीयस्य "च घातनम् । कुटुम्बकस्य राजेन्द्र !, प्रथमस्य च पोषणम् ॥ २१ ॥ एतत्रयं परिज्ञाय, कृत्वा श्रद्धानमजसा । अनुष्ठाय च वीर्येण, भू"यांसो मुनिपुङ्गवाः ॥ २२ ॥ भवप्रपञ्चान्निर्मुक्ताः, सर्वद्वन्द्वविवर्जिताः । स्थित्वा स्वाभाविक रूपे, मोदन्ते मोक्षवर्तिनः ॥ २३ ॥ त्रिभि-| "विशेषकम् ।” तदिदं दुष्करं कर्म, किं तु पर्यन्तसुन्दरम् । एवं व्यवस्थिते भूप!, कुरुष्व यदि रोचते ॥ २४ ॥ नृपतिराह-शिष्टं भगवता | पूर्व, कुटुम्बद्वयमादिमम् । अविच्छिन्नं प्रवाहेण, सदाऽनादिभवोदधौ ।। २५ ।। तृतीयं पुनरुद्दिष्टं, विनाशोत्पत्तिधर्मकम् । तत्किं भवे भवे
नाथ!, संभवत्यपरापरम् ॥ २६ ॥ सूरिराह–महाराज!, संभवत्यपरापरम् । भवे भवेऽत्र जन्तूनां, तत्तृतीयं कुटुम्बकम् ।। २७ ।। | राजाह-नाथ! यद्येवं, ततोऽनादिभवार्णवे । अनन्तानि कुटुम्बानि, त्यक्तपूर्वाणि देहिभिः ॥ २८ ॥ सूरिराह-महाराज!, सत्यमेतन्न संशयः । एते हि पथिकप्रायाः, सर्वे जीवास्तपस्विनः ।। २९ ॥ ततश्च-अन्यान्यानि कुटुम्बानि, मुञ्चन्तो वासकेष्विव । अपरापरदेहेषु, संचरन्ति पुनः पुनः ॥ ३० ॥ राजाह-नाथ! यद्येवं, ततोऽत्रापि भवे नृणाम् । कुटुम्बे स्नेहसम्बन्धो, महामोहविजृम्भितम् ॥३१॥
१ चिन्तितुमिति अनित्यत्वाण्णिचः चुरादेः, नवाक्षरो वा पादः, सर्वजातीनामपीति वचनादुपजातिच्छन्दो वा.
॥२९२॥
Jain Education
a
l
For Private & Personel Use Only
M
ainelibrary.org