SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. कुटुम्बत्रयं ॥२९ ॥ म्बकमस्वाभाविकमेकान्तेनाहितकरणशीलं संसारकारणं च तत्किमितीमे जीवा गाढतरमिदं पोषयन्ति?, भगवानाह-महाराजाकर्णयात्र कारणं-एतदाद्यं कुटुम्बकमनेन द्वितीयकुटुम्बकेनानादौ संसारे सकलकालमभिभूतमास्ते, ततो भयात्तिरोभावं गतस्य तस्य न संपन्नं | कदाचिदभिव्यक्तं दर्शनं, ततो न लक्षयन्त्येते वराका जीवास्तत्सम्बन्धिनं गुणकलापं, तेन न तस्योपरि गाढमादरं कुर्वन्ति, विद्यमानमपि तदविद्यमानं मन्यन्ते, तस्य गुणानपि वर्णयन्तमस्मदादिकं न गणयन्ति, एतत्पुनर्द्वितीयं कुटुम्बकमनादौ संसारे शत्रूभूतस्याऽऽद्यकुटुम्बकस्य निराकरणादवाप्तजयपताकं लब्धप्रसरतया वलगमानं प्रायेण सकलकालमाविर्भूतमेवास्ते, ततः संपद्यते तेन सहामीषां जीवानाम-| हर्निशं दर्शनं ततो वर्धते प्रेमाबन्धः समुत्पद्यते चित्तरतिः संजायते विश्रम्भः प्रादुर्भवत्यनेन सह प्रणयः, ततोऽस्य द्वितीयकुटुम्बकस्य सततमनुरक्तमानसाः खल्वेते जीवा न पश्यन्ति दोषसंघातं समारोपयन्त्यस्यासन्तमपि गुणसन्दोहं, तेनेदं गाढतरमेते पोषयन्ति, इदमेवैकं परमबन्धुभूतमस्माकमिति मन्यन्ते, अस्य च दोषप्रकाशकमस्मदादिकं शत्रुबुद्ध्या गृहन्ति, नृपतिराह-भदन्त ! सुन्दरं भवति यद्यते | तपस्विनो जीवा अनयोः कुटुम्बकयोर्गुणदोषविशेषमवगच्छेयुः, भगवानाह–किमतःपरं सुन्दरतरं ?, एतावन्मात्रमेव हि निःशेषकल्याणानि वाञ्छता परमार्थतः पुरुषेण कर्तव्यं यदुत-अनयोः प्रथमद्वितीययोः कुटुम्बकयोर्गुणदोषविशेषपरिज्ञानमिति, तथाऽस्माभिरपि जीवानां धर्मकथाभिरेतावन्मात्रमेव संपादनीयं, केवलमेते जीवाः स्वयोग्यतामन्तरेण नानयोर्विशेष कथञ्चिदपि ज्ञापयितुं शक्यन्ते, तेनायोग्येषु वयमपि गजनिमीलिकां कुर्मः, यदि पुनः सर्वेऽपि जीवा अनयोः कुटुम्बकयोर्गुणदोषविशेषमवगच्छेयुस्तदाऽऽदित एव संसारो|च्छेदः स्यात् , ततो निराकृत्येदं द्वितीयं कुटुम्बकं सर्वेऽपि जीवा मोक्षं गच्छेयुरिति, नृपतिराह-यद्येवमशक्यानुष्ठानं सर्वेषां जीवानामनयोर्गुणदोषविशेषज्ञापनं तत्किमनया चिन्तया?, अस्माभिर्विज्ञातस्तावद्भगवत्पादप्रसादेनानयोः कुटुम्बकयोर्गुणदोषविशेषः, ततः सिद्धं नः ॥२९ ॥ RANG Jan Education For Private Personal Use Only T hainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy