SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ उपमिती तृ. ३-प्र. ॥२८९॥ कुटुम्बत्रयं भगवतोक्तं पर्याप्तमियत्या महारिपुतया, नृपतिराह-किमस्यैवायं वयस्यः ? किं वाऽन्येषामपि जन्तूनां ?, भगवानाह-यदि महाराज! स्फुटं प्रश्नयसि ततस्तथा ते कथयामि यथा पुनः प्रष्टव्यमिदं न भवति, नृपतिराह-अनुग्रहो मे, भगवताऽभिहितं-इह सर्वेषां जीवानां प्रत्येकं त्रीणि त्रीणि कुटुम्बकानि, तद्यथा-क्षान्तिमार्दवार्जवमुक्तिज्ञानदर्शनवीर्यसुखसत्यशौचतपःसन्तोषादीनि यत्र गृहमानुषाणि तदिद४ मेकं कुटुम्बकं, तथा क्रोधमानमायालोभरागद्वेषमोहाज्ञानशोकभयाविरतिप्रभृतयो यत्र बान्धवाः तदिदं द्वितीयं कुटुम्बकं, तथा शरीरं तदु त्पादकौ स्त्रीपुरुषावन्ये च तथाविधा लोका यत्र सम्बन्धिनः तदिदं तृतीयं कुटुम्बकं, कुटुम्बत्रितयद्वारेण चासंख्याताः खजनवर्गा भवन्ति, तत्र यदिदमाद्यं कुटुम्बकमेतज्जीवानां स्वाभाविकमनाद्यपर्यवसितं हितकरणशीलमाविर्भावतिरोभावधर्मकमन्तरङ्गं च वर्तते मोक्षप्रापकं च, यतः प्रकृत्यैवेदं जीवमुपरिष्टान्नयति, यत्पुनरिदं द्वितीयं कुटुम्बकमेतज्जीवानामस्वाभाविकं, तथाऽप्यविज्ञातपरमार्थैर्जन्तुभिर्गृहीतं तद्गाढतरं स्वाभाविकमिति, तदनाद्यपर्यवसितमभव्यानां अनादि सपर्यवसितं केषाञ्चिद्भव्यानां, एकान्तेनाहितकरणशीलमाविर्भावतिरोभावधर्मकमन्तरङ्गं च वर्तते संसारकारणं च, यतः प्रकृत्यैवेदं जीवमधस्तात्पातयति, यत्पुनरिदं तृतीयं कुटुम्बकमेतज्जीवानामस्वाभाविकमेव, तथा सादि सपर्यवसितमनियतसद्भावं च, यथाभव्यतया हिताहितकरणशीलमुत्पत्तिविनाशधर्मकं बहिरङ्गं च वर्तते, तथाभव्यतया संसा|रकारणं मोक्षकारणं वा भवति, यतो बाहुल्येन द्वितीयकुटुम्बकस्यावष्टम्भकारकमिदं अतः संसारकारणं, यदि पुनः कथञ्चिदाद्यं कुटुम्बकमनुवर्तते ततो जीवस्येदमप्याद्यकुटुम्बकपोषणे सहायं स्यात् , ततश्च मोक्षकारणतां प्रतिपद्यते, तदेवं स्थिते महाराज! यदिदं द्वितीयं कटम्बकमस्य मध्ये सर्वेषां संसारिजीवानामेष वैश्वानरो वयस्यस्तथेयमपि हिंसा भार्या विद्यत एव, नात्र सन्देहो विधेयः, नृपतिराहभदन्त ! यदीदमाद्यं कुटुम्बकं स्वाभाविकं हितकरणशीलं मोक्षकारणं च तत्किमितीमे जीवा गाढं नेमाद्रियन्ते ?, यदि चेदं द्वितीयकुटु ॥२८९ उ. भ. २५ Join Education For Private & Personel Use Only Rajainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy