________________
उपमिती तृ. ३-प्र. ॥२८९॥
कुटुम्बत्रयं
भगवतोक्तं पर्याप्तमियत्या महारिपुतया, नृपतिराह-किमस्यैवायं वयस्यः ? किं वाऽन्येषामपि जन्तूनां ?, भगवानाह-यदि महाराज! स्फुटं प्रश्नयसि ततस्तथा ते कथयामि यथा पुनः प्रष्टव्यमिदं न भवति, नृपतिराह-अनुग्रहो मे, भगवताऽभिहितं-इह सर्वेषां जीवानां
प्रत्येकं त्रीणि त्रीणि कुटुम्बकानि, तद्यथा-क्षान्तिमार्दवार्जवमुक्तिज्ञानदर्शनवीर्यसुखसत्यशौचतपःसन्तोषादीनि यत्र गृहमानुषाणि तदिद४ मेकं कुटुम्बकं, तथा क्रोधमानमायालोभरागद्वेषमोहाज्ञानशोकभयाविरतिप्रभृतयो यत्र बान्धवाः तदिदं द्वितीयं कुटुम्बकं, तथा शरीरं तदु
त्पादकौ स्त्रीपुरुषावन्ये च तथाविधा लोका यत्र सम्बन्धिनः तदिदं तृतीयं कुटुम्बकं, कुटुम्बत्रितयद्वारेण चासंख्याताः खजनवर्गा भवन्ति, तत्र यदिदमाद्यं कुटुम्बकमेतज्जीवानां स्वाभाविकमनाद्यपर्यवसितं हितकरणशीलमाविर्भावतिरोभावधर्मकमन्तरङ्गं च वर्तते मोक्षप्रापकं च, यतः प्रकृत्यैवेदं जीवमुपरिष्टान्नयति, यत्पुनरिदं द्वितीयं कुटुम्बकमेतज्जीवानामस्वाभाविकं, तथाऽप्यविज्ञातपरमार्थैर्जन्तुभिर्गृहीतं तद्गाढतरं स्वाभाविकमिति, तदनाद्यपर्यवसितमभव्यानां अनादि सपर्यवसितं केषाञ्चिद्भव्यानां, एकान्तेनाहितकरणशीलमाविर्भावतिरोभावधर्मकमन्तरङ्गं च वर्तते संसारकारणं च, यतः प्रकृत्यैवेदं जीवमधस्तात्पातयति, यत्पुनरिदं तृतीयं कुटुम्बकमेतज्जीवानामस्वाभाविकमेव, तथा सादि सपर्यवसितमनियतसद्भावं च, यथाभव्यतया हिताहितकरणशीलमुत्पत्तिविनाशधर्मकं बहिरङ्गं च वर्तते, तथाभव्यतया संसा|रकारणं मोक्षकारणं वा भवति, यतो बाहुल्येन द्वितीयकुटुम्बकस्यावष्टम्भकारकमिदं अतः संसारकारणं, यदि पुनः कथञ्चिदाद्यं कुटुम्बकमनुवर्तते ततो जीवस्येदमप्याद्यकुटुम्बकपोषणे सहायं स्यात् , ततश्च मोक्षकारणतां प्रतिपद्यते, तदेवं स्थिते महाराज! यदिदं द्वितीयं कटम्बकमस्य मध्ये सर्वेषां संसारिजीवानामेष वैश्वानरो वयस्यस्तथेयमपि हिंसा भार्या विद्यत एव, नात्र सन्देहो विधेयः, नृपतिराहभदन्त ! यदीदमाद्यं कुटुम्बकं स्वाभाविकं हितकरणशीलं मोक्षकारणं च तत्किमितीमे जीवा गाढं नेमाद्रियन्ते ?, यदि चेदं द्वितीयकुटु
॥२८९
उ. भ. २५
Join Education
For Private & Personel Use Only
Rajainelibrary.org