SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥२८८॥ "चिन्तारत्नस्य काचेन, यावत्तावद्गुणान्तरम् ॥ ६ ॥ एवं च ज्ञातमाहात्म्यैः, संसारे ब्रूहि तत्त्वतः । ईदृक्षधर्मसम्प्राप्तिर्भूप ! केनोपमीय|"ताम् ? ॥ ७ ॥ एवं स्थिते-एनं संसारविस्तारं, विलक्ष्य कथमप्यदः । मानुष्यं प्राप्य दुष्प्रापं, राधावेधोपमं जनः ॥ ८ ॥ यो जैनमपि | "संप्राप्य, शासनं कर्मनाशनम् । हिंसाक्रोधादिपापेषु, रज्यते मूढमानसः ॥ ९ ॥ स हारयति काचेन, चिन्तामणिमनुत्तमम् । करोत्यङ्गा|"रवाणिज्यं, दुग्ध्वा गोशीर्षचन्दनम् ॥ १० ॥ युग्मम् । भिनत्ति नावं मूढात्मा, लोहार्थं स महोदधौ । सूत्रार्थ दारयत्युञ्चैवैडूर्य रत्नमुत्त "मम् ।। ११ ।। प्रदीपयति कीलार्थ, देव ! द्रोणी महत्तमाम् । रत्नस्थाल्यां पचत्याम्लखलकं मोहदोषतः ।। १२ ।। सौवर्णलाङ्गलाण, लि| "खित्वा वसुधां तथा । अर्कबीजं वपत्येष, चूतार्थ मूढमानसः ॥ १३ ॥ छित्त्वा कर्पूरखण्डानि, कोद्रवाणां समन्ततः । वृति विधत्ते मूढो|"ऽयमहंसश्रुतिकः किल ॥ १४ ॥ यतः-हिंसाक्रोधादिपापेषु, जन्तोरासक्तचेतसः । सद्धर्मोऽयं जिनेन्द्रोक्तो, दूराद्दूरेण गच्छति ॥१५॥ “सद्धर्मरहितश्चासौ, पापपूरितमानसः । न मोक्षमार्गलेशेन, कथञ्चिदपि युज्यते ॥ १६ ॥ ततो जानन्नपि बलात्पुनर्भीमे भवोदधौ । नि| "ऊलं याति मोहान्धो, यथाऽयं नन्दिवर्धनः ॥ १७ ॥” नृपतिनाऽभिहितं-भगवंस्तस्य नन्दिवर्धनस्य किमियताऽपि प्रपञ्चेन कथ्यमाने स्वसंवेदनसंसिद्धेऽपि निजचरिते संजातः प्रबोधः?, भगवताऽभिहितं-महाराज! न केवलमस्य प्रतिबोधाभावः, किं तर्हि ?, मयि कथयति प्रत्युतास्य महानुद्वेगो वर्तते, नृपतिराह-किमभव्योऽयं ?, भगवतोक्तं-नाभव्यः, किं तर्हि ?, भव्य एव, केवलमधमस्यैव वैश्वानरस्य | दोषो यन्मदीयवचनं न प्रतिपद्यते, यतोऽयमनन्तोऽनुबन्धोऽस्येतिकृत्वा अनन्तानुबन्धीतितृतीयनाम्ना मुनिभिर्गीयते, ततोऽत्र विद्यमाने न सुखायते मदीयवचनं उत्पादयत्यरतिं जनयति कलमलकं, ततः कुतोऽस्य तपस्विनः प्रबोधः?, पर्यटितव्यमद्याप्यनेन नन्दिवर्धनेनास्य वैश्वानरस्य प्रसादादपरापरस्थानेषु दुःखमनुभवताऽनन्तं कालं, प्राप्तव्या च वैरपरम्परा, नृपतिराह-भदन्त ! महारिपुरेषोऽस्य वैश्वानरः, नन्दिवर्धनस्य बो|धाभावः ॥२८८॥ Jain Education Inter For Private & Personel Use Only C amelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy