SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ उपमिती तृ. ३-प्र. ॥२८६॥ विधेया, नृपतिनोक्तं-भदन्त! तत्परमार्थतः कुतस्त्योऽयमवधार्यतां ?, भगवताऽभिहितं-असंव्यवहारनगरवास्तव्यः कुटुम्बिकोऽयं संसारिजीवनामा कर्मपरिणाममहाराजादेशेन लोकस्थितिनियोगमुररीकृत्य स्वभार्यया भवितव्यतया ततो नगरान्निःसारितोऽपरापरस्थानेषु पर्यटन धार्यत इत्यवधारणीयं, नृपतिराह-भदन्त! कथमेतदिति सप्रपञ्चामस्य वक्तव्यतां श्रोतुमिच्छामि, भगवानाह–महाराज! आकर्णय, ततः कथितो भगवता समस्तोऽपि विस्तरेण मदीयव्यतिकरः, ततः क्षुण्णतया भगवद्दर्शनेऽरिदमनस्य विमलतया बोधस्य प्रत्यायकतया टू भगवद्वचनस्य लघुकर्मतया जीवस्य प्रत्यासन्नतया महाकल्याणस्य परिस्फुरितमस्य हृदये-अये! भगवता विमलकेवलालोकेनोपलभ्यास्य नन्दिवर्धनकुमारस्य सम्बन्धी भवप्रपञ्चोऽयमनेन व्याजेन प्रतिपादितः, ततोऽभिहितमनेन–भदन्त ! यथैव मयाऽवधारितं तथैवेदमुता-13 न्यथेति, भगवानाह–महाराज! तथैव, मार्गानुसारिणी हि भवतो बुद्धिः, तत्कुतस्तत्रान्यथाभावः ?, नृपतिनाऽभिहितं-भदन्त ! तत्किमस्यैव नन्दिवर्धनकुमारस्यायं वृत्तान्तः ? किंवाऽन्येषामपि प्राणिनामिति ?, भगवानाह-महाराज! सर्वेषां संसारोदरविवरवर्तिनामसुमतामेष सर्वसंसाव्यतिकरः प्रायेण समानो वर्तते, तथाहि-"स्थिताः सर्वेऽप्येतेऽनादिकं कालं प्रायोऽसांव्यवहारिकजीवराशिमध्ये, तत्र च निवसतामेतेषामेत रिमूला| "एव क्रोधमानमायालोभास्रवद्वारादयोऽन्तरङ्गः परिजनः, यावन्तश्चागमप्रतिपादितानुष्ठानबलेन जीवाः सिध्यन्ति तावन्त एवासांव्यवहा- दिकथा "रिकजीवराशिमध्यादागच्छन्तीति केवलिवचनं, ततो निर्गताश्चैतेऽपि सर्वे जीवाः, विडम्बिता भूयांसं कालमेकेन्द्रियेषु, विनाटिता विक-| "लेन्द्रियेषु, विगोपिताः पञ्चेन्द्रियतिर्यग्योनिजेषु, कर्थिता नानाविधानन्तदुःखैः, कारिता बहुविधरूपाणि सततमपरापरभवप्रायोग्यकर्म-| A|“जालविपाकोदयद्वारेण भवितव्यतया, भ्रमिताश्चारघट्टघटीयश्रन्यायेन सूक्ष्मबादरपर्याप्तकापर्याप्तकपृथिव्यप्तेजोवायुवनस्पतिद्वीन्द्रियत्रीन्द्रिय-18॥२८६ ॥ "चतुरिन्द्रियसंश्यसंज्ञिपञ्चेन्द्रियतिर्यग्योनिजखचरजलचरस्थलचरादिभेदविवर्तेन सर्वस्थानेषु प्रत्येकमनन्तवाराः, ततः कैश्चिज्जीवैः कथञ्चि-12 Jain Education a l For Private & Personel Use Only Objainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy