SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ उपमिती तृ. ३-प्र. ॥२८६॥ विधेया, नृपतिनोक्तं-भदन्त! तत्परमार्थतः कुतस्त्योऽयमवधार्यतां ?, भगवताऽभिहितं-असंव्यवहारनगरवास्तव्यः कुटुम्बिकोऽयं संसारिजीवनामा कर्मपरिणाममहाराजादेशेन लोकस्थितिनियोगमुररीकृत्य स्वभार्यया भवितव्यतया ततो नगरान्निःसारितोऽपरापरस्थानेषु पर्यटन धार्यत इत्यवधारणीयं, नृपतिराह-भदन्त! कथमेतदिति सप्रपञ्चामस्य वक्तव्यतां श्रोतुमिच्छामि, भगवानाह–महाराज! आकर्णय, ततः कथितो भगवता समस्तोऽपि विस्तरेण मदीयव्यतिकरः, ततः क्षुण्णतया भगवद्दर्शनेऽरिदमनस्य विमलतया बोधस्य प्रत्यायकतया टू भगवद्वचनस्य लघुकर्मतया जीवस्य प्रत्यासन्नतया महाकल्याणस्य परिस्फुरितमस्य हृदये-अये! भगवता विमलकेवलालोकेनोपलभ्यास्य नन्दिवर्धनकुमारस्य सम्बन्धी भवप्रपञ्चोऽयमनेन व्याजेन प्रतिपादितः, ततोऽभिहितमनेन–भदन्त ! यथैव मयाऽवधारितं तथैवेदमुता-13 न्यथेति, भगवानाह–महाराज! तथैव, मार्गानुसारिणी हि भवतो बुद्धिः, तत्कुतस्तत्रान्यथाभावः ?, नृपतिनाऽभिहितं-भदन्त ! तत्किमस्यैव नन्दिवर्धनकुमारस्यायं वृत्तान्तः ? किंवाऽन्येषामपि प्राणिनामिति ?, भगवानाह-महाराज! सर्वेषां संसारोदरविवरवर्तिनामसुमतामेष सर्वसंसाव्यतिकरः प्रायेण समानो वर्तते, तथाहि-"स्थिताः सर्वेऽप्येतेऽनादिकं कालं प्रायोऽसांव्यवहारिकजीवराशिमध्ये, तत्र च निवसतामेतेषामेत रिमूला| "एव क्रोधमानमायालोभास्रवद्वारादयोऽन्तरङ्गः परिजनः, यावन्तश्चागमप्रतिपादितानुष्ठानबलेन जीवाः सिध्यन्ति तावन्त एवासांव्यवहा- दिकथा "रिकजीवराशिमध्यादागच्छन्तीति केवलिवचनं, ततो निर्गताश्चैतेऽपि सर्वे जीवाः, विडम्बिता भूयांसं कालमेकेन्द्रियेषु, विनाटिता विक-| "लेन्द्रियेषु, विगोपिताः पञ्चेन्द्रियतिर्यग्योनिजेषु, कर्थिता नानाविधानन्तदुःखैः, कारिता बहुविधरूपाणि सततमपरापरभवप्रायोग्यकर्म-| A|“जालविपाकोदयद्वारेण भवितव्यतया, भ्रमिताश्चारघट्टघटीयश्रन्यायेन सूक्ष्मबादरपर्याप्तकापर्याप्तकपृथिव्यप्तेजोवायुवनस्पतिद्वीन्द्रियत्रीन्द्रिय-18॥२८६ ॥ "चतुरिन्द्रियसंश्यसंज्ञिपञ्चेन्द्रियतिर्यग्योनिजखचरजलचरस्थलचरादिभेदविवर्तेन सर्वस्थानेषु प्रत्येकमनन्तवाराः, ततः कैश्चिज्जीवैः कथञ्चि-12 Jain Education a l For Private & Personel Use Only Objainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy