SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ 6 वैश्वानरहिंसादोषाः उपमिती Mवर्धनकुमारस्य दोषगन्धोऽप्यस्ति, तथाहि-अयं खरूपेण स्थानमनन्तज्ञानस्य भाजनमनन्तदर्शनस्य पात्रमनन्तवीर्यस्य निलयनमनन्तसुखस्य तृ. ३-प्र. कुलभवनमपरिमितगुणानां, न चेदृशमात्मस्वरूपमद्याप्येष वराको लक्षयति, तेनानयोः पापभार्यावयस्ययोः स्वरूपविपर्यासकारिणोर्वशे | वर्तते, तथा च वर्तमानोऽयमेवं विधामनन्तदुःखहेतुभूतामनर्थपरम्परामासादयति, नृपतिनाऽभिहितं-भदन्त ! स्फुटवचनव्यतिकरात् पूर्व॥२८५॥ मस्माभिः श्रुतमासील्लोकवार्त्तया-यदुतानेन नन्दिवर्धनकुमारेणोत्पद्यमानेनानन्दितं पद्मराजकुलं, वर्धितं कोशदण्डसमृद्ध्या, तोषितं नगरं, वर्धमानेन पुनराहादिताः प्रकृतयो, विस्तारितो गुणप्राग्भारः, प्रतापेन वशीकृतं भूमण्डलं, निर्जिताः शत्रवः, गृहीता जयपताका, समुलसितो यशःपटहः, सिंहायितं भूतले, अवगाहितः सुखामृतसागरः, तत् किं तदाऽस्य नास्तामेतौ पापभार्यावयस्यौ ? यदिमौ दुःखपरम्पराकारणभूताविति ?, भगवताऽभिहितं-महाराज! तदाप्यास्तामेती, किंतु तदाऽन्यदेव कल्याणपरम्पराकारणमासीत् , नृपतिराह-किं तत्?, भगवतोक्तं-पुण्योदयो नाम सहचरः, स हि विद्यमानः स्वकीयप्रभावेण सर्वेषामेषामनन्तरोक्तानां पद्मराजकुलानन्दजननादीनां प्रयोजनविशेषाणां संपन्नः कारणं, केवलं महामोहवशान्न लक्षितोऽनेन नन्दिवर्धनेन तदीयः प्रभावः, पुण्योदयमाहात्म्यजातमपि कल्याणकदम्बकं हिंसावैश्वानरप्रतापजनितं ममैतदित्येवमेष मन्यते स्म, ततोऽयमविशेषज्ञ इति मत्वा विरक्तोऽसौ पुण्योदयः, नष्टो गृहीत्वैका दिशं स्फुटवचनव्यतिकरावसरे, ततस्तद्विकलस्यास्य नन्दिवर्धनकुमारस्येदमनर्थकदम्बकमाभ्यां हिंसावैश्वानराभ्यां संपादितमिति, नृपतिराह -भदन्त ! कियान्पुनः कालोऽस्य हिंसावैश्वानराभ्यां सह सम्बन्धस्य ?, भगवताऽभिहितं-अनादिपरिचितावस्येमौ हिंसावैश्वानरौ, केवलमत्र पद्मराजगृहे निवसतोऽस्याविर्भूताविमौ, पूर्व तिरोहितौ स्थिती, नृपतिराह–किमनादिरूपोऽयं नन्दिवर्धनकुमारः ', भगवानाहबाद, नृपतिराह-तत्किमित्ययं पद्मराजपुत्रतया प्रसिद्धः?, भगवानाह-मिथ्याभिमानोऽयमस्य यदुत-पद्मराजपुत्रोऽहं, अतो नात्रास्था ASSACOCRACCSCRECAS ॥२८५॥ Jain Education For Private & Personel Use Only XMainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy