SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥२८४॥ तादृग्गुणगणोपेतः, स्वरूपेणैष वर्तते ॥ ३ ॥ राजाह ननु कस्यायं, दोषो ? नाथ! निवेद्यताम् । यद्येवमात्मरूपेण, निर्दोषो नन्दिवर्धनः ॥ ४ ॥ ततो गुरुणाऽभिहितं यदेतदृश्यते दूरवर्ति कृष्णरूपं मानुषद्वयं, अस्यैष समस्तोऽपि दोषः, ततो नरपतिना विस्तारितं मदभिमुखमीक्षणयुगलं, निरूपितं बृहती वेलां तन्मानुषद्वयं, गदितं चानेन-भगवन्नेकोऽत्र मनुष्यो द्वितीया नारीति लक्ष्यते, भगवताऽभिहितं सम्यगवधारितं महाराजेन, नृपतिराह-भदन्त ! कोऽयं मनुष्यः ?, भगवताऽभिहितं-एष महामोहस्य पौत्रको द्वेषगजेन्द्रस्य सूनुरविवेकितानन्दनो वैश्वानरोऽभिधीयते, अस्य हि जननीजनकाभ्यां प्रथम क्रोध इति नाम प्रतिष्ठितं, पश्चात्स्वगुणैरस्य परिजनसकाशादिदं द्वितीयं वैश्वानर इति प्रियनामकं संपन्नं, नृपतिराह-तर्हि नारी केयं ?, भगवताऽभिहितं-एषा द्वेषगजेन्द्रप्रतिबद्धस्य दुष्टाभिसन्धिनरेन्द्रस्य निष्करुणताया महादेव्या दुहिता हिंसोच्यते, नृपतिनाऽभिहितं-अनेन नन्दिवर्धनकुमारेण सहानयोः कः सम्बन्धः ?, भगवानाहअस्यान्तरङ्गे एते मित्रभार्ये भवतः, "अनयोश्च समर्पितहृदयोऽयं न गणयति स्वकमर्थानर्थ नापेक्षते धर्माधर्म न लक्षयति भक्ष्याभक्ष्यं नाकल"यति पेयापेयं न जानीते वाच्यावाच्यं नावगच्छति गम्यागम्यं न बुध्यते हिताहितविभाग, ततो विस्मरन्ति स्वभ्यस्ता अपि समस्ता गुणाः, "क्षणमात्रेण परावर्तते निःशेषदोषपुखतयाऽस्यात्मा, ततो महाराज! नन्दिवर्धनेनानेन बालकाले कदर्थिता निरपराधा दारकाः, खलीकृतः | "कलोपाध्यायस्ताडितो हितोपदेशदायकोऽपि विदुरः, तथा तरुणेन सता घातिताः प्राणिसंघाताः, विहिता महासङ्घामा, जनितो जगत्स"न्तापः, परमोपकारिणौ बान्धवावपि मारयितुमारब्धौ, तिरस्कृतौ कनकचूडकनकशेखरौ, तदारात्पुनर्यदनेनाचरितं स्फुटवचनेन सहाकाण्ड"भण्डनं तन्मारणं च, तथा जननीजनकसहोदरभगिनीप्रियभार्या दिव्यापादानं नगरदनं स्नेहनिर्भरमित्रभृत्यनिपातनं च तन्निवेदितमेव | "युष्माकं, स एष महाराज! समस्तोऽप्यनयोरेव पापयोर्हिसावैश्वानरयोरस्य भार्यावयस्ययोर्दोषसंघातो" न पुनः स्वयमस्य तपस्विनो नन्दि *%ARE5%A5%25A505 वैश्वानरहिंसादोषाः ॥२८४॥ Jain Educational For Private & Personel Use Only Animelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy