SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. मानता ॥२८३॥ | तैश्चागत्य निवेदितं यथा-देव! तज्जयस्थलं सर्व भस्मीभूतं दवदग्धस्थलमात्रमधुना वर्तते, छिन्नमण्डलं च तत् , तेन न विद्यन्ते प्रत्यासन्ना-18 जयस्थन्यन्यग्रामनगराणि, अरण्यप्रायः सोऽधुना देशो वर्तते, तथा वार्तामात्रमपि नास्माभिरुपलब्धं कथं तत्तथाभूतं संजातमिति, ततो मया लीयप्रश्न: |चिन्तितं-हा कष्टमहो कष्टं, किं पुनरत्र कारणं ?, किमकाण्ड एव तत्रोत्पाताङ्गारवृष्टिर्निपतिता ? किं वा पूर्वविरुद्धदेवेन भस्मीकृतं नगरं ? उत मुनिना केनचित्कोपाग्निना दग्धं ? आहोस्वित् क्षेम(त्र)वह्निना चौरादिभिर्वा ?, ततश्चाविज्ञातपरमार्थः ससन्देहः शोकापन्नश्च स्थितोऽहमेतावन्तं कालं, अधुना भगवति दृष्टे संजातः शोकापनोदः, स सन्देहः पुनरद्यापि मे नापगच्छति, तमपनयतु भगवानिति, भगवताऽभि| हितं-महाराज! पश्यसि त्वमेनं पर्षदः प्रत्यासन्नं नियन्त्रितं पश्चाद्वाहुबन्धेन निबद्धवक्रविवरं तिरश्चीनं पुरुष ?, नृपतिनाऽभिहितं-सुष्ट पश्यामि, भगवानाह-महाराज! एतेन भस्मीकृतं नगरं, नृपतिराह-भदन्त! कोऽयं पुरुषः?, भगवानाह-महाराज! स एवायं तव जामाता नन्दिवर्धनकुमारः, नृपतिराह-कथं पुनरनेनेदमीदृशं व्यवसितं ? किमिति वाऽयमेवंविधावस्थोऽधुना वर्तते ?, ततः कथितो भगवता स्फुटवचनविरोधादिकश्चरटमनुष्यपरित्यागपर्यवसानः सर्वोऽपि नरपतये मदीयवृत्तान्तः, तमाकर्ण्य विस्मितो राजा परिषच्च, नृपतिना चिन्तितं-किं छोटयाम्यस्य वदनं ?, करोमि मुत्कलं बाहुयुगलं, अथवा नहि नहि, निवेदितमेवास्य चरितं भगवता, तदेष मुत्कलोऽस्माकमपि केनचिदकाण्डविडुरसम्पादनेन धर्मकथाश्रवणविघ्नहेतुः स्यात् , तस्मात्तावदयं यथान्यासमेवास्तां, पश्चादुचितं करिष्यामः, अस्थानं चैष करुणायाः यस्येदृशं चरितं, तदधुना तावदपरं भगवन्तं सन्देहं प्रश्नयामः, ततोऽभिहितं नृपतिना-भदन्त! नन्दिवर्धनकुमारोऽस्माभिरेवंगुणः समाकर्णितः, यदुत–वीरो दक्षः स्थिरः प्राज्ञो, महासत्त्वो दृढव्रतः। रूपवान्नयमार्गज्ञः, सर्वशास्त्रविशारदः ॥१॥ ॥ २८३॥ गुणानां निकषस्थानं, प्रख्यातपरपौरुषः । अतोऽनेन महापापं, कथं चेष्टितमीदृशम् ? ॥२॥ सूरिणाऽभिहितं राजन्नास्य दोषस्तपस्विनः । 1ॐॐॐॐॐॐ Jan Education For Private 3 Personal Use Only Enelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy