SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. मानता ॥२८३॥ | तैश्चागत्य निवेदितं यथा-देव! तज्जयस्थलं सर्व भस्मीभूतं दवदग्धस्थलमात्रमधुना वर्तते, छिन्नमण्डलं च तत् , तेन न विद्यन्ते प्रत्यासन्ना-18 जयस्थन्यन्यग्रामनगराणि, अरण्यप्रायः सोऽधुना देशो वर्तते, तथा वार्तामात्रमपि नास्माभिरुपलब्धं कथं तत्तथाभूतं संजातमिति, ततो मया लीयप्रश्न: |चिन्तितं-हा कष्टमहो कष्टं, किं पुनरत्र कारणं ?, किमकाण्ड एव तत्रोत्पाताङ्गारवृष्टिर्निपतिता ? किं वा पूर्वविरुद्धदेवेन भस्मीकृतं नगरं ? उत मुनिना केनचित्कोपाग्निना दग्धं ? आहोस्वित् क्षेम(त्र)वह्निना चौरादिभिर्वा ?, ततश्चाविज्ञातपरमार्थः ससन्देहः शोकापन्नश्च स्थितोऽहमेतावन्तं कालं, अधुना भगवति दृष्टे संजातः शोकापनोदः, स सन्देहः पुनरद्यापि मे नापगच्छति, तमपनयतु भगवानिति, भगवताऽभि| हितं-महाराज! पश्यसि त्वमेनं पर्षदः प्रत्यासन्नं नियन्त्रितं पश्चाद्वाहुबन्धेन निबद्धवक्रविवरं तिरश्चीनं पुरुष ?, नृपतिनाऽभिहितं-सुष्ट पश्यामि, भगवानाह-महाराज! एतेन भस्मीकृतं नगरं, नृपतिराह-भदन्त! कोऽयं पुरुषः?, भगवानाह-महाराज! स एवायं तव जामाता नन्दिवर्धनकुमारः, नृपतिराह-कथं पुनरनेनेदमीदृशं व्यवसितं ? किमिति वाऽयमेवंविधावस्थोऽधुना वर्तते ?, ततः कथितो भगवता स्फुटवचनविरोधादिकश्चरटमनुष्यपरित्यागपर्यवसानः सर्वोऽपि नरपतये मदीयवृत्तान्तः, तमाकर्ण्य विस्मितो राजा परिषच्च, नृपतिना चिन्तितं-किं छोटयाम्यस्य वदनं ?, करोमि मुत्कलं बाहुयुगलं, अथवा नहि नहि, निवेदितमेवास्य चरितं भगवता, तदेष मुत्कलोऽस्माकमपि केनचिदकाण्डविडुरसम्पादनेन धर्मकथाश्रवणविघ्नहेतुः स्यात् , तस्मात्तावदयं यथान्यासमेवास्तां, पश्चादुचितं करिष्यामः, अस्थानं चैष करुणायाः यस्येदृशं चरितं, तदधुना तावदपरं भगवन्तं सन्देहं प्रश्नयामः, ततोऽभिहितं नृपतिना-भदन्त! नन्दिवर्धनकुमारोऽस्माभिरेवंगुणः समाकर्णितः, यदुत–वीरो दक्षः स्थिरः प्राज्ञो, महासत्त्वो दृढव्रतः। रूपवान्नयमार्गज्ञः, सर्वशास्त्रविशारदः ॥१॥ ॥ २८३॥ गुणानां निकषस्थानं, प्रख्यातपरपौरुषः । अतोऽनेन महापापं, कथं चेष्टितमीदृशम् ? ॥२॥ सूरिणाऽभिहितं राजन्नास्य दोषस्तपस्विनः । 1ॐॐॐॐॐॐ Jan Education For Private 3 Personal Use Only Enelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy