________________
धर्मदोल
उपमिती तृ. ३-प्र.
भ्ये देशना
॥२८२॥
कृतो नृपे ॥ १०॥ ततः कृतप्रणामेषु, शेषलोकेषु भावतः । प्रयुक्तलोकयात्रेण, गुरुणाऽऽरम्भि देशना ॥ ११॥ कथम् ?-"भो भव्या ! "भवकान्तारे, पर्यटद्भिरनारतम् । अत्यन्तदुर्लभो ह्येष, धर्मः सर्वज्ञभाषितः ।। १२ ॥ यतः-अनादिरेप संसारः, कालोऽनादिः प्रवा"हतः । जीवाश्चानादिकाः सर्वे, दृश्यन्ते ज्ञानचक्षुषा ।। १३ ॥ न चैते प्राप्नुवन्तोऽमुं, धर्म सर्वज्ञभाषितम् । कदाचिदपि पूर्व तु, तेनैते "भवभाजनम् ॥ १४ ॥ अथावाप्तो भवेज्जैनो, धर्मोऽमीभिः कदाचन । ततः कुतो भवोऽमीषां ?, क ताणं वह्निमीलके ? ॥ १५ ॥ तस्मा"सुनिश्चितं राजन्नेतन्नास्त्यत्र संशयः । नैवावाप्तः पुरा धर्मो, जन्तुभिर्जिनदेशितः ।। १६ ।। एवं च स्थिते-यदाऽनादौ भवेऽमीषां, म"त्स्यानामिव सागरे । सदा दोलायमानानां, जीवानां दुःखसङ्कले ॥ १७ ॥ स्वकर्मपरिणामेन, भव्यत्वपरिपाकतः । मनुष्यत्वादिसामग्र्या, "तथा कालादियोगतः ॥ १८ ॥ धन्यः सकलकल्याणजनकोऽचिन्त्यशक्तिकः । यत्र कचिद्भवेज्जीवेऽनुग्रहः पारमेश्वरः ॥ १९ ॥ स तदा "लभते जीवो, दुर्भेदग्रन्थिभेदतः । अशेषक्लेशनिर्णाशि, जैनेन्द्र तत्त्वदर्शनम् ॥ २०॥ चतुर्भिः कलापकम् । ततोऽसौ गृहिधर्म वा, प्राप्नु"याज्जिनभाषितम् । लभते साधुसद्धर्म, सर्वदुःखविमोचकम् ॥ २१ ॥ सा चेयती भवेत्कस्य, सामग्रीयं सुदुर्लभा । राधावेधोपमानेन, | "धर्मप्राप्तिः प्रकीर्तिता ॥२२।। तदत्र लब्धे सद्धर्मे, कुरुध्वं यत्नमुत्तमम् । अलब्धस्य तु लाभार्थ, घटध्वमिह हे जनाः! ॥ २३ ॥” अत्रान्तरे चिन्तितं नरेन्द्रेण केवलज्ञानदिवाकरो भगवानयं, नास्त्यस्य किश्चिदशेयं, अतः पृच्छामि भगवन्तमात्मीयं संशयं, अथवा पश्यत्येव भगवान्मदीयं सन्देहं जिज्ञासां वा, अतः कथयतु ममानुग्रहेण, ततो भगवता सूरिणा भव्यजनबोधनार्थमभिहितो नरेन्द्रः-महाराज! वाचा पृच्छ, नृपतिनाऽभिहितं-भदन्त ! येयं मदीयदुहिता मदनमजूषा, अस्याः पद्मनृपतिसुतनन्दिवर्धनकुमाराय दानार्थं प्र| हितो मया जयस्थले स्फुटवचनो नाम महत्तमः, गतः कियानपि कालो, न निवृत्तोऽसौ, ततः प्रहिता मया तद्वाभ्रेपलम्भार्थे पुरुषाः,
जयस्थलीयप्रश्नः
वा, अतः कथय मदीयदुहिता कालो, न नि
॥ २८२॥
Jain Education
Nional
For Private & Personel Use Only
M
ainelibrary.org