SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ उपमितौ "दिनकरः, तथा ममापि मनाग्गलित इव चित्तसन्तापः, तदनन्तरं च देहभूषणप्रभाप्रवाहेण द्योतयन्तो दिक्चक्रवालं समागतास्तत्र देवाः, तृ. ३-प्र.|3|"शोधितं तैर्भूतलं, वृष्टमतिसुरभिगन्धोदकं, विमुक्तः पञ्चवर्णमनोहारिकुसुमप्रकरः, विरचितं विशालमतिरमणीयं मणिकुट्टिम, विहितं | "तस्योपरि कनककमलं, विस्तारितमुपरिष्टाद्देवदूष्यवितानं, अवलम्बितास्तत्र मौक्तिकावचूलाः, ततः समुत्सुकैस्तैर्देवैरवलोकितमार्गः कल्पद्रुम ॥२८१॥ | "इव यथेष्टफलदायितया कनकगिरिरिव स्थिरतया क्षीरनीरधिरिव गुणरत्नाकरतया शशधर इव शीतलेश्यतया दिनकर इव सप्रतापतया “चिन्तामणिरिव दुर्लभतया स्फटिक इव निर्मलतया भूभाग इव सर्वसहिष्णुतया गगनतलमिव निरालम्बनतया गन्धकरटीव वरकरिभिः | "परिकरितः स्वप्रतिबिम्बकैरिव बहुविधविनेयैः समागतः केवलज्ञानदिवाकरो विवेको नामाचार्यः" समुपविष्टः कनककमले, प्रणिपत्य विहि|तकरमुकुला निषण्णा परिषत् , प्रारब्धं व्याख्यानं, अत्रान्तरे भगवतः प्रतापं सोढुमशक्नुवन्तौ मदीयशरीरान्निर्गतौ हिंसावैश्वानरौ, दूरदेशे स्थितौ मां प्रतीक्षमाणौ,-अथारिदमनो राजा, मुनि विज्ञाय लोकतः । सपुरो निर्गतस्तस्य, मुनेर्वन्दनकाम्यया ॥ १ ॥ तथा मदनमञ्जूषा, या दत्ता मम कन्यका । सापि तत्र समायाता, सहिता रतिचूलया ॥ २ ॥ विहाय पञ्च चिह्नानि, भक्तिनिर्भरमानसः । राजा कृतोत्तरासङ्गः, प्रविष्टः सूर्यवग्रहे ॥ ३ ॥ पञ्चाङ्गप्रणिपातेन, पादयोन्य॑स्तमस्तकः । प्रणम्य सूरि नौति स्म, ललाटे कृतकुमलः ॥ ४ ॥ कथम् ?-"अज्ञानतिमिरोच्छेदकर नाथ दिवाकर!। नमस्ते रागसन्तापनाशकारिनिशाकर! ॥५॥ स्वपाददर्शनेनाद्य, नाथ! कारुण्यसागर!। "भवता भवनिर्णाश! पूतपापाः कृता वयम् ॥६।। अद्यैव ननु जातोऽस्मि, राज्येऽद्यैव प्रतिष्ठितः । अद्यैव पटुकर्णोऽस्मि, पश्याम्यद्यैव च"क्षुषा ॥ ७ ॥ यदद्याखिलसन्तापपापाजीर्णविरेचनम् । भाग्यसंसूचकं मन्ये, संपन्नं तव दर्शनम् ॥ ८॥" एवं संस्तुत्य राजेन्द्रः, सूरिं सूदितकल्मषम् । प्रणम्य शेषसाधूंश्च, निषण्णः शुद्धभूतले ॥ ९॥ स्वर्गापवर्गपण्यस्य, सत्यंकार इवाखिलैः । गुरुभिर्मुनिभिश्वोच्चैर्धर्मलाभः अरिदमननृपागमः ॥२८१॥ Jain Educati o nal For Private & Personel Use Only jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy