________________
उपमितौ तृ. ३ - प्र. ४
॥ २८० ॥
Jain Education
वेगेन कनकचूडादयः, प्रादुर्भूतः कोलाहलः, स्तम्भितोऽहं कनकशेखरगुणावर्जितया यथासंनिहितया देवतया, समुत्क्षिप्तः पश्यतामेव तेषां गगनमार्गेण, नीतस्तद्विषयसन्धिदेशे, क्षिप्तस्तेषामम्बरीषाभिधानानां वीरसेनादीनां चरटानां मध्ये, दृष्टस्तैस्तथैवोद्गीर्णप्रहारो गृहीतक्षुरिकः, प्रत्यभिज्ञातोऽमीभिः पतिताः पादयोरभिहितं च तैः — देव! कोऽयं वृत्तान्तः ?, न शक्तिं मया जल्पितुं विस्मिताश्चरटाः, आनीतमासनं, न शकितं मयोपवेष्टुं ततो गता दैन्यमेते, तत्करुणयोत्तम्भितोऽहं देवतया, चालितान्यङ्गानि, हृष्टास्ते वराकाः, निवेशितोहमासने, पुनरपि पृष्टः प्रस्तुतव्यतिकरः, मया चिन्तितं— अहो यत्र यत्र व्रजामस्तत्र तत्र वयमेतैः परतप्तिपरायणैरलीकवत्सलैलो कैरासितुं न लभामहे, ते त्वलब्धप्रतिवचनाः पुनः पुनर्मां पृच्छन्ति स्म, ततो विस्फुरितौ मे हिंसावैश्वानरौ, निपातिताः कतिचिञ्चरटाः, जातः कलकलः, ततो बहुत्वात्तेषां गृहीता मम हस्तादसिपुत्रिका, बद्धोऽहमात्मभयेन, अत्रान्तरे गतोऽस्तं दिनकरः, विजृम्भितं तिमिरं, समालोचितं चरटैः यथा— पूर्ववैरिक एवायमस्माकं नन्दिवर्धनो येन हतः प्रवरसेनोऽधुनापि घातिता एतेनैते प्रधानपुरुषाः तथापि | प्रतिपन्नोऽस्माभिरेष स्वामिभावेन प्रख्यापितो लोके विज्ञातमेतद्देशान्तरेषु ततोऽस्य मारणे महानयशस्कार : संपद्यते, नैष वह्निवत्पुलके कथञ्चिद्वारयितुं शक्यः, तस्माद् दूरदेशं नीत्वा त्याग एवास्य श्रेयानिति स्थापितः सिद्धान्तः, ततो नियन्त्रितोऽहं गत्र्यामारटंश्च निबद्धो वस्त्रेण वदनदेशे, युक्तौ मनः पवनगमनौ वृषभौ, प्रस्थापिताः कतिचित्पुरुषाः, खेटिता गन्री, गता रजन्यैव द्वादश योजनानि, ततः प्रापि - तोऽहमनवरतप्रयाणकैः शार्दूलपुरं, त्यक्तो मलविलयाभिधाने बहिष्कानने, गताः स्वस्थानं सगनीकास्ते मनुष्याः, स्तोकवेलायां "अकाण्ड “एव विजृम्भितः सुरभिपवनः, विमुक्तः सहजोऽपि वैरानुबन्धः पशुगणैः, भुवनश्रियेव तत्समाध्यासितं काननं, समवतीर्णाः समकमेव “सर्व ऋतवः, प्रमुदिता विहङ्गमगणाः, मनोहरमनुत्तालतालं रुण्टितं मधुकरावलीभिः, विगततापं विशेषतस्तमुद्देशमुद्योतयितुमारब्धो
For Private & Personal Use Only
देवतयो - पाटितः
अंबरीषा
णां पार्श्वे
मुक्तिः
बद्धा शार्दूले बहिःकानने
मुक्तः केवलिसमवसरणं
॥ २८० ॥
Inelibrary.org