________________
उपमितौ तृ. ३-प्र.
॥ २७९ ॥
Jain Education
*%%%
महालङ्कारैः, दत्तं स्वयमेव विभाकरेण मनोहारि ताम्बूलं, मया त्वहमनेनेदमभिहितो यथा न सुन्दरमनुष्ठितं भवतेति, ततो मारयिष्याम्येनं वैरिणमिति रौद्रवितर्कपरम्परादोदूयमानचेतसा न किञ्चिचेतितं, उत्थाय भोजनमण्डपादुपविष्टा वयमास्थानशालायां, मतिशेख| रेण मन्त्रिणाभिहितं किं विदितं कुमारेण ? यथा देवभूयं गतः सुगृहीतनामधेयो देवः प्रभाकरः, ततो धूनिता मया कन्धरा, कृतं विभाकरेण साधु लोचनयुगलं, अभिहितं च-वयस्य ! ताते परोक्षेऽधुना युष्माभिस्तात कार्यमनुष्ठेयं तदिदं राज्यमेते वयमेताश्च तातपादप्रसादलालिताः प्रकृतयः प्रतिपन्नाः किङ्करभावं वयस्यस्य यथेष्टं नियोज्यंतां, ततो वैश्वानरवैगुण्यादवस्थितोऽहं मौनेन, लङ्घितो दिवसो, प्रदत्तं प्रादोषिकमास्थानं, तदन्ते विसर्जितराजमण्डलो निवार्य प्रियतमाप्रवेशं मया सहातिस्नेह निर्भरतया महार्हायामेकस्यामेव शय्यायां प्रसुप्तो वासभवने विभाकरनरेन्द्रः, ततो भद्रेऽगृहीतसङ्केते! तदा मया वैश्वानरहिंसाभ्यां विधुरितहृदयेन स तथाविधो ऽतिस्निग्धमुग्धविश्रब्धो विभाकरः समुत्थाय विनिपातितः पापेन, निर्गतश्चाहं परिधानद्वितीयः स्वकर्मत्रासेन, पलायितो वेगेन, निपतितोऽटव्यां, सोढानि नानाविधदुःखानि, प्राप्तो महता क्लेशेन कुशावर्त्ते, विश्रान्तो वहिः कानने, दृष्टः कनकशेखरपरिकरेण, निवेदितः कनकचूडकनकशेखरयोः, चिन्तितमाभ्यां भवितव्यमत्र कारणेन यदेकाकी नन्दिवर्धन इति, ततः समागतौ कतिचिदाप्तपुरुषपरिवारौ मत्समीपं विहितमुचितं स्थितो मया सहोत्तारके कनकशेखरः, पृष्टमेकाकिताकारणं, मया चिन्तितं - अस्यापि न प्रतिभासिष्यते मदीयचरितं तत्किं कथितेन ?, ततो मयाऽभिहितं — अलमनया कथया, कनकशेखरः प्राह — किं मामपि न कथ्यते ?, मयोक्तं नेति, कनकशेखरेणोक्तं— कुमारावश्यंतया कथनीयमितरथा न भवति मे चित्ते निर्वाणं, ततो मया (दा)ऽऽदिष्टमयमुल्लङ्घयतीति चिन्तयतो मेऽन्तर्गतौ प्रज्वलितौ हिंसावैश्वानरौ, समाकृष्टा कनकशेखरकटी तटात्कृतान्तजिह्वाभासुराऽसिपुत्रिका, समुद्गीर्णः कनकशेखरमारणाय प्रहार:, ततः किमेतदिति प्राप्ता
For Private & Personal Use Only
कुशावर्ते आगमनं
॥ २७९ ॥
nelibrary.org