________________
C
धनकुमार एवायं, केवलं कथं तस्यह कार धारयति, ततो निरूपितोऽहं न
हि प्राणिनां किं वा न संभवति?,
उपमितौ8 गृहीता बन्यो, नीताः कनकपुरं, गतोऽहमपि तन्मध्ये, दर्शिता बन्यो विभाकरनृपतेः, ततो मामवलोक्य चिन्तितमनेन-अये ! किमि- कनकपुरे तृ. ३-प्र. दमाश्चर्य ? यदेष पुरुषोऽस्थिचर्मशेषतया दवदग्धस्थाणुकल्पोऽपि नन्दिवर्धनकुमाराकारं धारयति, ततो निरूपितोऽहं नखाग्रेभ्यो वालाग्राणि बन्दीतया यावत् , ततः स्थितं तस्य हृदये-नन्दिवर्धनकुमार एवायं, केवलं कथं तस्येह संभवः ?, अथवा विचित्राणि विधेर्विलसितानि, तद्वशगानां
गमनं ॥२७८॥
हि प्राणिनां किं वा न संभवति?, तथाहि य एकदा नताशेषभूपमौल्यार्चितक्रमः । वचने वचने लोकैर्जय देवेति भण्यते ॥१॥ स एव | विधिना राजा, तस्मिन्नेव भवेऽन्यदा । रोराकारं विधायोच्चै नाकारं विडम्ब्यते ॥२॥ तस्मात्स एवायं, नास्त्यत्र सन्देहः, ततः स्मृत| मित्रभावेन गलदानन्दोदकप्रवाहक्षालितकपोलेन सिंहासनादुत्थाय समालिङ्गितोऽहं विभाकरेण, ततः किमेतदिति विस्मितं राजमण्डलं, ततो निवेश्यात्मीयार्धासनेऽभिहितोऽहमनेन-वयस्य ! कोऽयं वृत्तान्तः ?, ततः कथितं विभाकराय मयाऽऽत्मचरितं, विभाकरः प्राह-10 हा कष्टं, न सुन्दरमनुष्ठितं भवता, यदिदमतिनिघृणं जननीजनकादिमारणमाचरितं, ततः अयमपीह जन्मन्येव क्लेशो भवतस्तस्यैव फल-8 विपाकः, तच्छ्रुत्वा विस्फुरितौ ममान्तर्गतौ हिंसावैश्वानरौ, चिन्तितं मया यथा-अयमपि मे वैरिरूप एव यो मत्कर्तव्यमप्यसुन्दरं मन्यते, ततो जातो मे तन्मारणाभिप्रायः, तथापि दुर्बलतया देहस्य महाप्रतापतया विभाकरस्य संनिहिततया बहुराजवृन्दस्य अतिनिकटव-17 र्तितया प्रहरणस्य न दत्तो मया प्रहारः, केवलं कृतं कालं मुखं, लक्षितो विभाकरेण मदीयाभिप्रायः यथा-न सुखायतेऽस्य मदीयोऽयं 8 जल्पः, तत् किमनेन संतापितेन ?, ततो विहितः प्रस्तुतकथाविक्षेपः, ज्ञापितं सामन्तमहत्तमादीनां यथा-एष नन्दिवर्धनकुमारो मम शरीरं जीवितं सर्वखं बन्धुता, पूज्यो(पुण्यो)ऽद्य जातोऽहमस्य दर्शनेन, अतः कुरुत प्रियसमागममहोत्सवमिति, तैरभिहितं यदाज्ञापयति
|॥ २७८॥ देवः, ततः प्रवर्तितो महानन्दः, स्त्रपितोऽहं विधिना, परिधापितो दिव्यवस्त्राणि, भोजितः परमान्नैः, विलेपितः सुरभिविलेपनेन, भूषितो
ERASAASAASAASAS
-MARUS
Jain Educat
i onal
For Private & Personel Use Only
A
jainelibrary.org