________________
उपमिती तृ.३-प्र.
॥२७७॥
अटव्यां
रस्य च अपरापरेषु इन्धनबहुलेषु स्थानेषु स्तोकस्तोकांस्तान्प्रक्षिपामि, ततः स्वयमेव भस्मीभविष्यतीदं द्वयमपि दुरात्मकमिति, ततः कृतं सर्व तथैव तन्मया, लग्नं समन्तात्प्रदीपनकं, निर्गतोऽहमपि दंदह्यमानः कथंचिद्भवितव्यताविशेषेण, प्रवृत्तो जनाक्रन्दरवः, धावन्ति स्म लात लातेति बुवाणाः परबलशङ्कया सुभटाः, ततः क्षीणतया शरीरस्य परस्परानुविद्धतया शरीरमनसोर्विगलितं धैर्य, समुत्पन्नं मे भयं, पलायितोऽटवीसंमुखं, पतितो महारण्ये विद्धः कण्टकैः स्फोटितः कीलकैः परिभ्रष्टो मार्गात् प्रस्खलितो विषमोट्टङ्कात् निपतितोऽ-3 धोमुखो निम्नदेशे चूर्णितान्यङ्गोपाङ्गानि न शक्नोम्युत्थातुं, अत्रान्तरे समागताश्चौराः, दृष्टस्तैस्तथावस्थितोऽहं, अभिहितममीभिः परस्परं -अरे! महाकायोऽयं पुरुषो, लप्स्यते परकूले बहुमूल्यं, तद् गृहीत्वा नयामः स्वस्वामिमूलमेनं, तदाकर्ण्य समुल्लसितो ममान्तर्निमग्नो चौराधीनः वैश्वानरः, स्थितोऽहमुपविष्टः, ततस्तेषामेकेनाभिहितं-अरे! विरूपकोऽस्याभिप्रायः ततः शीघ्र बन्नीत यूयमेनं अन्यथा दुर्घहो भविध्यति, ततो गाढं हत्वा धनुःशाखाभिर्नियनितोऽहं पश्चान्मुखीकृत्य बाहू, ददतो गालीबद्धं मे वक्रकुहरं, ततः समुत्थापितोऽहं, परिहितं जरच्चीवरखण्डं, खेटितो ददद्भिर्गाढप्रहारान , नीतः कनकपुरप्रत्यासन्नां भीमनिकेतनाभिधानां भिल्लपल्ली, दर्शितो रणवीरस्य पल्लीपतेः, | अभिहितमनेन-अरे पोषयत तावदेनं येन पुष्टो विक्रेतुं नीयते, ततो यदाज्ञापयति देव इति वदता नीतोऽहमेकेन चौरेण स्वभवने, छोटितं वदनं, कृतो मुत्कलो, लग्नोऽहं चकारादिभिः, कुपितश्चौरो, हतोऽहं दण्डादिभिर्नवरं समर्पितोऽयं मम स्वामिनेति मत्वा न मारितोऽहमनेन, केवलं दापितं कदशनं, ततो बुभुक्षाक्षामकुक्षितया संजातं मे दैन्यं, तदेव कदन्नं भक्षयितुमारब्धः, न पूरितमुदरं, संजातश्चित्तोद्वेगः, गतानि कतिचिदिनानि, पृष्टोऽसौ रणवीरेण चौरः, कीदृशोऽसौ पुरुषो वर्तत इति, स प्राह-देव! न कथञ्चित्तस्य बल
का॥२७७॥ |मारोहतीति, ततः क्षपितोऽहमेवं तेन भूयांसं कालं, अन्यदा समायातः कनकपुराञ्चौराणामुपरि दण्डः, नष्टास्तस्कराः, लूषिता सा पल्ली,
उ भ. २४
Jain Educatio
n
al
For Private & Personel Use Only
Ww.jainelibrary.org