________________
+
6
उपमितौ पीठबन्धः
॥२४॥
भद्रे ! भाजनमेतत्त्वं, हित्वा सर्व कदन्नकम् ॥ १०॥ तयोक्तं-पृच्छयतां तावद्धर्मबोधकरस्त्वया । काले न विक्रियां याति, सम्यगालोच्य यत् कृतम् ॥ ११॥ ततः सहैव सदुद्ध्या, धर्मबोधकरान्तिके । गत्वा सर्वोऽपि वृत्तान्तस्तेन तस्मै निवेदितः ॥ १२॥ साधु साधु कृतं भद्र!, धर्मबोधकरोऽब्रवीत् । केवलं निश्चयः कार्यो, येन नो यासि हास्यताम् ॥ १३ ॥ सोऽवादीत् किमिदं नाथा!, भूयो भूयो विक-| ध्यते । एष मे निश्चयस्तस्मिन्न मनोऽपि प्रवर्त्तते ॥ १४ ॥ ततोऽशेषजनैः सार्द्ध, पर्यालोच्य विचक्षणः । अत्याजयत्स तत्पात्रं, सज्जलैः पर्यशोधयत् ॥ १५॥ महाकल्याणकस्योच्चैस्तत् पुनः पर्यपूरयत् । प्रमोदातिशयात्तत्र, दिने वृद्धिमकारयत् ॥ १६ ॥ धर्मबोधकरो हृष्टस्तद्दया प्रमदोद्धरा । सद्बुद्धिर्वर्द्धितानन्दा, मुदितं राजमन्दिरम् ॥ १७ ॥ प्रवृत्तश्च जने वादो, योऽयं राज्ञाऽवलोकितः । धर्मबोधकरस्येष्टस्तद्दयापरिपालितः ।। १८ ॥ सद्बुद्ध्याऽधिष्ठितो नित्यमपथ्यत्यागकारकः । भेषजत्रयसेवित्वाद्रोगौधैर्मुक्तकल्पकः ॥ १९ ॥ स नो निष्पुण्यकः किन्तु, | महात्मैप सपुण्यकः । ततस्तदैव संजातं, नामास्येति सपुण्यकः ॥ २० ॥ त्रिभिर्विशेषकम् । कुतः पुण्यविहीनानां, सामग्री भवतीदृशी? । जन्मदारियभाग् नैव, चक्रवर्त्तित्वभाजनम् ॥ २१ ॥ सद्बुद्धिस्तद्दयायोगात्तिष्ठति राजमन्दिरे । ततः प्रभृति यत्तस्य, संपन्नं तन्निबोधत ॥ २२ ॥ अपथ्याभावतो नास्ति, पीडा देहे परिस्फुटा । कचित्सूक्ष्माऽल्पकाला च, यदि स्यात्पूर्वदोषजा ॥ २३ ॥ ततः स्वयं गताकाडो, लोकव्यापारशून्यधीः । विधत्ते विमलालोकं, नेत्रयोरञ्जनं सदा ॥ २४ ॥ तत्त्वप्रीतिकरं तोयं, पिबत्यश्रान्तमानसः । महाकल्याणकं मुझे, तत्सदन्नमनारतम् ॥ २५ ॥ ततो बलं धृतिः स्वास्थ्यं, कान्तिरोजः प्रसन्नता । बुद्धिपाटवमक्षाणां, वर्द्धतेऽस्य प्रतिक्षणम् ॥ २६ ॥ नाद्यापि सम्यगारोग्यं, बहुत्वाद्रोगसन्ततेः । जायते केवलं देहे, विशेषो दृश्यते महान् ॥ २७ ॥ यः प्रेतभूतः प्रागासीद्गाढं बीभत्सदर्शनः ।
१ तिष्ठते प्र.
द्रमकनी
रोगता ४२३-४३०
॥२४॥
Jain Education
For Private Personel Use Only
--