SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥ २७३ ॥ "मेवैषा, दुष्टा भार्या विनयति ॥ १४ ॥ यतः - इयं दाहात्मिका पापा, सा पुनर्हिमशीतला । ततोऽनयोर्विरोधोऽस्ति, यथाऽग्निजलयोः " सदा ॥ १५ ॥ ततस्तातेनाभिहितं - आर्य ! कदा पुनरेष नन्दिवर्धनकुमारस्तां दयाकन्यकां परिणेष्यति ?, जिनमतज्ञेनाभिहितं यदा शुभपरिणामो दास्यति, तातः प्राह — स एव तर्हि कदा दास्यति ?, जिनमतज्ञेनाभिहितं यदा कुमारं प्रति प्रगुणो भविष्यति, तातेनाभिहितं कस्तर्हि तस्य प्रगुणीभवनोपायः ?, जिनमतज्ञः प्राह — कथितं पूर्वमेवेदं मया भवतां यथा तं शुभपरिणामनरेश्वरं यदि परं कर्मपरिणाममहाराजः प्रगुणयितुं समर्थो, नापरः, यतस्तदायत्तोऽसौ वर्तते तस्मात्किमत्र बहुना ?, यदा स कर्मपरिणाममहानरेन्द्रः कुमारं प्रति सप्रसादो भविष्यति तदा स्वयमेव शुभपरिणामेनास्मै कुमाराय दयादारिकां दापयिष्यति, किं चिन्तया ?, अन्यच — लक्षयाम्येवाहं निमित्त बलेन कुमारस्य भव्यतामपेक्ष्य युक्तिबलेन च यदुत — नियमेन क्वचित्काले सप्रसादो भविष्यत्येनं कुमारं प्रति कर्मपरिणामो, नात्र सन्देहः, ततश्च तस्मिन् काले आपृच्छय महत्तमभगिनीं लोकस्थितिं पर्यालोच्य सह कालपरिणत्या निजभार्यया कथयित्वाऽऽत्मीयमहत्तमाय स्वभावाय संभाल्य च स्वरमधुरवचनैरस्यैव नन्दिवर्धनकुमारस्य सम्बन्धिनीं समस्तभवान्तरानुयायिनीं प्रच्छन्नरूपामन्तरङ्ग| भार्यां भवितव्यतां दीपयित्वा नियतियदृच्छादीनां कुमारवीर्यं स्थापयित्वा दयादारिकादानस्य योग्योऽयमिति सर्वसमक्षं सिद्धान्तपक्षं ततो | दापयिष्यत्येव स कर्मपरिणाममहाराजो दयादारिकां कुमाराय निःसन्दिग्धमेतद्, अतो मुञ्चत यूयमाकुलतां तातः प्राह - तत्किमधुना - ऽस्माकं प्राप्तकालं ?, जिनमतज्ञेनोकं – मौनमवधीरणा च, तातेनाभिहितं—आर्य ! किमात्मपुत्रोऽस्माभिरवधीरयितुं शक्यते ?, जिनमतज्ञः प्राह तत्किमत्र क्रियतां ?, यदि हि बहिरङ्गोऽयमुपद्रवः कुमारस्य स्यात् ततो न युज्येत कर्तुं तत्र भवतामवधीरणां, अयं पुनरन्तरङ्ग उपद्रवो वर्तते, ततस्तमवधीरयन्तोऽपि भवन्तो नोपालम्भमर्हन्ति, ततो यदादिशत्यार्य इति वदता तातेन परिपूज्य प्रहितो नैमित्तिकः, ग Jain Educationonal For Private & Personal Use Only दयालाभोपायः ॥ २७३ ॥ www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy