SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥ २७२ ॥ Jain Education “देवी, स्वबलेन महात्मनाम् । तेन सा सदनुष्ठानजनकेति निरुच्यते ||८|| ( युग्मम् ) कामक्रोधभयद्रोहमोहमात्सर्यविभ्रमाः । शाठ्यपैशुन्यरा“गाद्या, ये लोके पापहेतवः ॥ ९ ॥ तेषां तया सहावस्था, नास्त्येव भुवनत्रये । अतः सा चारुता देवी, पापानां दूरवर्तिनी ॥ १०॥ तस्याश्च “शुभपरिणामसम्बन्धिन्याश्चारुताया महादेव्या आहादहेतुर्जगतः सुन्दरा रूपेण वल्लभा बन्धूनां कारणमानन्दपरम्परायाः सततं मुनीनामपि "हृदयवासिनी विद्यते दया नाम दुहिता, तथाहि-- सर्वे चराचरा जीवा, भुवनोदरचारिणः । दुःखं वा मरणं वाऽपि, नाभिकाङ्क्षन्ति “सर्वदा ॥ १ ॥ ततश्व - सा दया द्वयमप्येतद्वारयत्येव देहिनाम् । तेन सा भुवनाहादकारणं परिकीर्तिता ॥ २ ॥ मुखं शशधराकारं, "माभीर्दानाख्यमुत्तमम् । सद्दानदुःखत्राणाख्यौ, दयायाः पीवरौ स्तनौ ॥ ३ ॥ विस्तीर्ण जगदानन्दं, शमाख्यं जघनस्थलम् । यद्वा नास्त्येव “तद्देहे, किञ्चिदङ्गमसुन्दरम् ॥ ४ ॥ रूपेण सुन्दरा प्रोक्ता, तेन सा मुनिपुङ्गवैः । यथेष्टा बन्धुवर्गस्य तथेदानीं निगद्यते ॥ ५ ॥ क्षान्तिः “शुभपरिणामश्च चारुता निष्प्रकम्पता । शौचसन्तोषधैर्याद्या, दयाया बान्धवा मताः ॥ ३ ॥ तेषां तु सतताहादकारिणी हृदयस्थिता । "तेनातिवल्लभा प्रोक्ता, बन्धुवर्गस्य सा दया ॥७॥ सुरेषु मर्त्यलोके च मोक्षे च सुखपद्धतिः । दयापरीतचित्तानां वर्तते करवर्तिनी ॥ ८ ॥ "आनन्दपद्धतेर्हेतुस्तेन सा कन्यका मता । अत एव सुसाधूनां हृदये सा प्रतिष्ठिता ।। ९ ।। अथवा — दया हितकरी लोके, दया सर्वगु|" णावहा । दया हि धर्मसर्वस्वं दया दोषनिषूदनी ॥ १० ॥ दयैव चित्तसन्तापविध्यापनपरायणा । दयावतां न जायन्ते, नूनं वैरपरम्पराः “॥ ११ ॥ किं चात्र बहुनोक्तेन ?, गुणसम्भारगौरवम् । वहन्ती पद्मपत्राक्षी, सा दया केन वर्ण्यताम् ? ।। १२ ।। तत्र परमार्थोऽयं, "महाराजाय कथ्यते । हिंसायाः प्रलयोपायो, नापरोऽत्र निरीक्ष्यते ॥ १३ ॥ यदैष तां दयां धीरः कुमारः परिणेष्यति । तदाऽस्य स्वय १ जनयतादिति जनका 'आशिष्यकन्' इत्यकनि नित्त्वान्नेकार: For Private & Personal Use Only दयातत्कुटुम्बवर्णनं ॥ २७२॥ v.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy