SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ 1564 जिनमत उपमितौ तृ. ३-प्र. ॥२७१॥ ज्ञस्यागमः दयातकु टुम्बवणेनं RASASKASUSASHISHA -देव! वैश्वानरवन्निरुपक्रमेयं लक्ष्यते, अथवा श्रूयते पुनरप्यायातोऽत्र नगरे स जिनमतज्ञो नैमित्तिकः, ततः स एवाहूय प्रष्टुं युक्तो यदत्र कर्तव्यमिति, तातेनाभिहितं-आकारय तर्हि तं नैमित्तिकं, विदुरेणोक्तं यदाज्ञापयति देवः, ततो निर्गतो विदुरः, समागतः स्तोकवेलायां गृहीत्वा जिनमतज्ञं, ततो विधाय तस्य प्रतिपत्तिमाख्यातं तातेन प्रयोजनं, ततो निरूपितं बुद्धिनाडीसञ्चारतो नैमित्तिकेन, अभिहितं च यथा-महाराज! एक एवात्र परमुपायो विद्यते स यदि संपद्येत ततः स्वयमेव प्रलीयेत कुमारस्येयमनर्थकारिणी हिंसाभिधाना भार्या, तातेनाभिहितं-कीदृशः सः ? इति कथयत्वार्यः, जिनमतज्ञेनाभिहितं यत्तदा वर्णितं समक्षमेव भवतां यथा-अस्ति | "रहितं सर्वोपद्रवैर्निवासस्थानं समस्तगुणानां कारणं कल्याणपरम्परायाः दुर्लभं मन्दभागधेयैश्चित्तसौन्दर्य नगरं, तत्र च यो वर्णित: यथा |"अस्ति हितकारी लोकानां कृतोद्योगो दुष्टनिग्रहे दत्तावधानः शिष्टपरिपालने परिपूर्णः कोशदण्डसमुदयेन शुभपरिणामो नाम राजा, तस्य | "राज्ञो यथासौ क्षान्तेर्जनयित्री निष्प्रकम्पता नाम महादेवी तदा वर्णिता तथैव तस्यान्यापि द्वितीयाऽस्ति हितकारिणी लोकानां निकषभूमिः |"सर्वशास्त्रार्थानां प्रवर्तिका सदनुष्टानानां दूरवर्तिनी पापानां चारुता नाम राज्ञी । तथाहि-तावदुःखानि संसारे, लभन्ते सर्वजन्तवः । | "स्वर्गापवर्गमार्ग च, न लभन्ते कदाचन ॥१॥ यावत्सा चारुता देवी, तैर्न सम्यग् निषेव्यते । यदा पुनर्निषेवन्ते, तां देवीं ते विधानतः “॥ २ ॥ लब्ध्वा कल्याणसन्दोहं, तदा यान्ति शिवं नराः । अतः सा चारुता देवी, लोकानां हितकारिणी ॥३॥ युग्मम् । संसारसा| "गरोत्तारकारणानि महात्मनाम् । लोके लोकोत्तरे वापि, यानि शास्त्राणि कानिचित् ॥ ४ ॥ तेषु सर्वेषु शास्त्रेषु, वर्णिता परमार्थतः । "उपादेयतया देवी, सा प्राज्ञैस्तत्त्वचिन्तकैः ॥ ५ ॥ युग्मम् । तेन सा निकषस्थानं, शास्त्राणामिह गीयते । तां विना सर्वशास्त्रार्थोऽसबु- "द्धिप्रकरायते ॥ ६ ॥ दानं शीलं तपो ध्यानं, गुरुपूजा शमो दमः । एवमादीनि लोकेऽत्र, चारुकर्माणि भावतः ॥ ७॥ प्रवर्तयति सा SHARANAQURAAAAAXAS २७१॥ Jain Education For Private & Personel Use Only Kalejainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy