SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ SASA उपमितौ तृ. ३-प्र. ॥२७॥ मृगया RAMESSASSASARAM नातः परतरं मन्ये, प्रभावे वृद्धिकारकम् । यथेयं मम हिंसेति, प्रत्यक्षफलदायिनी ॥ १२ ॥ ततो गाढतरं रक्तोऽहं वैश्वानरहिंसयोः । सिद्धान्तं हृदयेनैवं, स्थापयामि विशेषतः ॥ १३ ॥ एते मे परमौ बन्धू, एते परमदेवताः । एते एव हिते मन्ये, सर्वमत्र प्रतिष्ठितम् ॥ १४ ॥ एते यः श्लाघयेद्धन्यः, स मे बन्धुः स मे सुहृत् । एते यो द्वेष्टि मूढात्मा, स मे शत्रुर्न संशयः ॥ १५ ॥ न पुनस्तद्विजानामि, महामोहपरायणः । यथा पुण्योदयाज्जातं, ममेदं सर्वमजसा ॥ १६॥ हिंसावैश्वानरासक्तः, पुण्योदयपराङ्मुखः । ततोऽहं धर्ममार्गस्य, दूराद् दूरतरं गतः ॥ १७ ॥ ततश्च-रात्रिशेषे समुत्थाय, पापद्धौँ बद्धमानसः । ताताम्बादीनदृष्ट्वैव, गतोऽटव्यामहं ततः ॥ १८ ॥ अनेकसत्त्वसम्भारं, मारयित्वा गते दिने । सन्ध्यायां पुनरायातः, प्रविष्टो भवने निजे ॥ १९॥ अथासौ विदुरः प्रोक्तस्तातेनाकुलचेतसा । मत्समीपे कुमारोऽद्य, किं नायातो निरूपय? ॥ २०॥ विदुरेणोक्तं प्रभातेऽहं, स्मृत्वा मैत्री चिरन्तनीम् । दर्शनार्थ कुमारस्य, गतस्तस्यैव मन्दिरे ॥ २१ ॥ ततः परिजनेनोक्तं, यथाऽऽखेटककाम्यया । रात्रावेव गतोऽटव्यां, कुमारो नास्ति भो! गृहे ॥ २२ ॥ ततो मयाऽभिहितं-किमद्यैव कुमारो गतः पापर्द्धिबुद्ध्या किं वा प्रतिदिनं गच्छतीति ?, परिजनः प्राह-भद्र! यतःप्रभृतीयं हिंसा परिणीता कुमारेण तत आरभ्य प्रतिदिनं गच्छति, नान्यथा धृतिं लभते, किं बहुना ?, जीवितादपि वल्लभोऽयमधुना आखेटकः कुमारस्येति, मया चिन्तितं-अहो हता देवेन वयं मन्दभाग्याः, तदिदमाभाणकमायातं यदुत-'यत्करभस्य पृष्ठे न माति तत्कण्ठे | निबध्यते' इति, तथाहि-वैश्वानरपापमित्रयोगेनैव कुमारस्य गाढमुद्वेजिता वयं यावतेयमपरा कृत्येवास्य भार्या संपन्नेति, तत्किं पुनरत्र विधेयमिति चिन्तयतो मे गतं दिनं, तदिदं कुमारस्य युष्मत्समीपेऽनागमनकारणमिति, तातेनाभिहितं-विदुर! महापापहेतुरिदं मृगयाव्यसनं, न च सेवितमस्मद्वंशजैनरपतिभिः, अतो यद्यस्य निमित्तभूतेयं भार्या कुमारस्यापसार्यते ततः सुन्दरं भवति, विदुरः प्राह ॥२७॥ Hot Jain Education Lu n a For Private & Personel Use Only Amjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy