SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ उपमिती एव दूतः येन सर्वत्र शान्तिः संपद्यते, मतिधनेनाभिहितं एवं भवतु, ततः सर्वरोचकेन प्रहितोऽहमिति, तदिदं दूतवचनमाकोल्ल-1 तृ.३-प्र. कसितो वैश्वानरः, भविष्यति मम चारुतरोऽवसर इति प्रहसिता हिंसा, मयाऽभिहितं-अरे! ताडयत प्रस्थानभेरिं सज्जीकुरुत चतुरङ्गा लि सेना तथा कृतं नियुक्तः, ततः सर्वबलेन चलितोऽहं, नाख्यातं कनकचूडकनकशेखरयोः, केवलं कनकमजरीवत्सलतया प्रवृत्ता मणिम-1 ॥२६८॥ जरी, ततोऽनवरतप्रयाणकैः प्राप्ता वयं जयस्थलासन्ने, अभिहितो मया वैश्वानरः यदुत-वयस्य ! सततप्रवृत्ता ममाधुना तेजस्विता मनापेक्षते वटकोपयोगं तत्किमत्र कारणमिति ?, वैश्वानरेणाभिहितं-कुमार! निष्कृत्रिमभक्तिग्राह्या वयं, अतुला च ममोपरि कुमारस्य भक्तिः, मद्वीर्यप्रभवाणि चैतानि क्रूरचित्तानि वटकानि भक्तिमतामेव पुसां शरीरे प्रचरन्ति, तेन प्रचारितानि कुमारस्य शरीरे, गतानि तन्मयतां, किंबहुना ?, मद्रूप एवाधुना वीर्येण कुमारो वर्तते, अन्यञ्च-कुमार! मदीयवचनानुभावादेवयमपि हिंसाऽधुना कुमारस्य प्रतिपन्ना सात्मीभावं, नात्र सन्देहो विधेयः, मयाऽभिहितं-अद्यापि सन्देहः, ततो यावदेतावानावयोर्जल्पः संपद्यते स्म तावद्दर्शनवीथिमवतीर्ण परबलं दृष्टमनेनास्मदनीकं, ततस्तत्संनद्धमागतमभिमुखं, ततः संलग्नमायोधनं, तच्च कीदृशम्?-रथौघघर्घरारवं गजेन्द्रगजिंदारुणम् । महाश्वहेषितोडुरं, पदातिशब्दभीषणम् ॥१॥ क्षणेन च तत्भूितं संपन्नम् ?-विदीर्णचक्रकूबरं, विभिन्नमत्तकुञ्जरम् । विनाथवाजिराजितं, पतत्पदातिमस्तकम् ॥ २ ॥ प्रजातसैन्यतानवं, प्रनष्टदेवदानवम् । असिग्रहप्रवर्धकं, प्रनृत्तसत्कबन्धकम् ॥ ३॥ ततोऽभिभूता यवनराजसेनयाऽस्मत्पताकिनी, समुल्लसितस्तद्बले कलकलः, ततो वलितोऽहमेककस्तदभिमुखं, समापतितो मया सह योद्धं स्वयमेव यवनराजः, रणरभसेन चातीव मिलितौ स्यन्दनौ, ततः स्थित्वाऽहं कूबराने चरणं दत्त्वा पतितस्तत्स्यन्दने, त्रोटितं स्वहस्तेन यवनराजस्य मस्तकं,-ततः प्रादुर्भवत्तोषलसज्जयजयारवम् । अस्मदलं परावृत्य, समायातं मदन्तिकम् ॥ १॥ अन्यच्च तदा-देवदानवगन्धर्वा, वर्ण . वर्ण यवनराजस्य पराजयो यूतिश्च R ॥२६८॥ Jain Education For Private & Personel Use Only Amjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy