________________
उपमिती एव दूतः येन सर्वत्र शान्तिः संपद्यते, मतिधनेनाभिहितं एवं भवतु, ततः सर्वरोचकेन प्रहितोऽहमिति, तदिदं दूतवचनमाकोल्ल-1 तृ.३-प्र. कसितो वैश्वानरः, भविष्यति मम चारुतरोऽवसर इति प्रहसिता हिंसा, मयाऽभिहितं-अरे! ताडयत प्रस्थानभेरिं सज्जीकुरुत चतुरङ्गा
लि सेना तथा कृतं नियुक्तः, ततः सर्वबलेन चलितोऽहं, नाख्यातं कनकचूडकनकशेखरयोः, केवलं कनकमजरीवत्सलतया प्रवृत्ता मणिम-1 ॥२६८॥
जरी, ततोऽनवरतप्रयाणकैः प्राप्ता वयं जयस्थलासन्ने, अभिहितो मया वैश्वानरः यदुत-वयस्य ! सततप्रवृत्ता ममाधुना तेजस्विता मनापेक्षते वटकोपयोगं तत्किमत्र कारणमिति ?, वैश्वानरेणाभिहितं-कुमार! निष्कृत्रिमभक्तिग्राह्या वयं, अतुला च ममोपरि कुमारस्य
भक्तिः, मद्वीर्यप्रभवाणि चैतानि क्रूरचित्तानि वटकानि भक्तिमतामेव पुसां शरीरे प्रचरन्ति, तेन प्रचारितानि कुमारस्य शरीरे, गतानि तन्मयतां, किंबहुना ?, मद्रूप एवाधुना वीर्येण कुमारो वर्तते, अन्यञ्च-कुमार! मदीयवचनानुभावादेवयमपि हिंसाऽधुना कुमारस्य प्रतिपन्ना सात्मीभावं, नात्र सन्देहो विधेयः, मयाऽभिहितं-अद्यापि सन्देहः, ततो यावदेतावानावयोर्जल्पः संपद्यते स्म तावद्दर्शनवीथिमवतीर्ण परबलं दृष्टमनेनास्मदनीकं, ततस्तत्संनद्धमागतमभिमुखं, ततः संलग्नमायोधनं, तच्च कीदृशम्?-रथौघघर्घरारवं गजेन्द्रगजिंदारुणम् । महाश्वहेषितोडुरं, पदातिशब्दभीषणम् ॥१॥ क्षणेन च तत्भूितं संपन्नम् ?-विदीर्णचक्रकूबरं, विभिन्नमत्तकुञ्जरम् । विनाथवाजिराजितं, पतत्पदातिमस्तकम् ॥ २ ॥ प्रजातसैन्यतानवं, प्रनष्टदेवदानवम् । असिग्रहप्रवर्धकं, प्रनृत्तसत्कबन्धकम् ॥ ३॥ ततोऽभिभूता यवनराजसेनयाऽस्मत्पताकिनी, समुल्लसितस्तद्बले कलकलः, ततो वलितोऽहमेककस्तदभिमुखं, समापतितो मया सह योद्धं स्वयमेव यवनराजः, रणरभसेन चातीव मिलितौ स्यन्दनौ, ततः स्थित्वाऽहं कूबराने चरणं दत्त्वा पतितस्तत्स्यन्दने, त्रोटितं स्वहस्तेन यवनराजस्य मस्तकं,-ततः प्रादुर्भवत्तोषलसज्जयजयारवम् । अस्मदलं परावृत्य, समायातं मदन्तिकम् ॥ १॥ अन्यच्च तदा-देवदानवगन्धर्वा, वर्ण
. वर्ण
यवनराजस्य पराजयो यूतिश्च
R
॥२६८॥
Jain Education
For Private & Personel Use Only
Amjainelibrary.org