________________
उपमितौ तृ. ३-प्र. ॥२६७॥
दयस्य म
नकशेखराम्या
निवेदितमनेन र
अरे वृपल ! किंमत्तोऽपि पण्डिततरस्त्वमसि' येनैवं मां शिक्षयसि, ततस्तदवलोक्याकर्ण्य च मदीयवचनं विस्मितोऽसौ राजा, कृतं कनकशेखरेण स्मेरं मुखं, मया चिन्तितं-अये! नैतौ मां गणयतः, ततः समाकृष्टा चमत्कुर्वाणा क्षुरिका, अभिहितं च-अरे गेहेनर्दिनौ ! दर्शयामि भवतोः स्वकीयवैश्वानरवीर्य, प्रहरणहस्तौ भवतः, ततः समुत्खातक्षुरिकं ललमानजिहूं यममिव मामवलोक्य दूरीभूतं राजकं न चलितौ राजकनकशेखरौ, ततः सन्निहिततया पुण्योदयस्य महाप्रतापतया राजकनकशेखरयोर्भवितव्यतावशेन चादत्त्वैव प्रहारं निर्गतोऽहमास्थानाद् , गतः स्वभवनं, ततःप्रभृत्यपकर्णितोऽहं कनकचूडकनकशेखराभ्यां, मयाऽपि दृष्टौ तौ शत्रुरूपौ, विच्छिन्नः परस्परं लोकव्यवहारोऽपीति, अन्यदा समागतो जयस्थलाहारुको नाम दूतः, प्रत्यभिज्ञातो मया, निवेदितमनेन यथा-कुमार ! महत्तमैः प्रहितोहं, मया चिन्तितं-अये! किमिति महत्तमैः प्रहितोऽयं, न पुनस्तातेन, ततो जाताशकेन पृष्टोऽसौ मया-अपि कुशलं तातस्य ?, दारुकः प्राह-कुशलं, केवलमस्ति वङ्गाधिपतिर्यवनो नाम राजा, तेन चागत्य महाबलतया समन्तान्निरुद्धं नगरं, स्वीकृतो बहिर्विषयः, दापितानि स्थानकानि, भग्नः पर्याहारः, न चास्ति कश्चित्तन्निराकरणोपायः, ततः क्षीरसागरगम्भीरहृदयोऽपि मनागाकुलीभूतो देवः विषण्णा मन्त्रिणः उन्मनीभूता महत्तमाः त्रस्ता नागरकाः, किं बहुना ? न जाने किमत्र भविष्यतीति वितर्केण संजातं सर्वमपि देवशरणं |तन्नगरं, ततो मत्रिमहत्तमैः कृतपर्यालोचः स्थापितः सिद्धान्तः यदुत-नन्दिवर्धनकुमार एव यदि परमेनं यवनहतकमुत्सादयति, नापरः पुरुष इति, ततो मतिधनेनाभिहितं-ज्ञाप्यतामिदमेवंस्थितमेव देवाय, बुद्धिविशालेनाभिहितं-नैवेदं देवाय ज्ञापनीयं, मतिधनः प्राहकोऽत्र दोषः?, बुद्धिविशालेनाभिहितं-सुतवत्सलतया देवस्य कदाचिदेवंविधसङ्कटे नन्दिवर्धनागमनं न प्रतिभासते, तस्माद्देवस्याज्ञापनमेव श्रेयः, प्रज्ञाकरः प्राह–साधु साधूपपद्यमानं मत्रितं बुद्धिविशालेन, मतिधन ! किमत्रान्येन विकल्पेन ?, प्रेष्यतां कुमाराह्वानाय प्रच्छन्न
दारुकदू है तोक्तेर्नगरे
आगमोनन्दिवर्धनस्य
अपि कुशलं
॥२६७॥
Jain Education iraltah
For Private & Personal Use Only
www.jainelibrary.org