SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥२६७॥ दयस्य म नकशेखराम्या निवेदितमनेन र अरे वृपल ! किंमत्तोऽपि पण्डिततरस्त्वमसि' येनैवं मां शिक्षयसि, ततस्तदवलोक्याकर्ण्य च मदीयवचनं विस्मितोऽसौ राजा, कृतं कनकशेखरेण स्मेरं मुखं, मया चिन्तितं-अये! नैतौ मां गणयतः, ततः समाकृष्टा चमत्कुर्वाणा क्षुरिका, अभिहितं च-अरे गेहेनर्दिनौ ! दर्शयामि भवतोः स्वकीयवैश्वानरवीर्य, प्रहरणहस्तौ भवतः, ततः समुत्खातक्षुरिकं ललमानजिहूं यममिव मामवलोक्य दूरीभूतं राजकं न चलितौ राजकनकशेखरौ, ततः सन्निहिततया पुण्योदयस्य महाप्रतापतया राजकनकशेखरयोर्भवितव्यतावशेन चादत्त्वैव प्रहारं निर्गतोऽहमास्थानाद् , गतः स्वभवनं, ततःप्रभृत्यपकर्णितोऽहं कनकचूडकनकशेखराभ्यां, मयाऽपि दृष्टौ तौ शत्रुरूपौ, विच्छिन्नः परस्परं लोकव्यवहारोऽपीति, अन्यदा समागतो जयस्थलाहारुको नाम दूतः, प्रत्यभिज्ञातो मया, निवेदितमनेन यथा-कुमार ! महत्तमैः प्रहितोहं, मया चिन्तितं-अये! किमिति महत्तमैः प्रहितोऽयं, न पुनस्तातेन, ततो जाताशकेन पृष्टोऽसौ मया-अपि कुशलं तातस्य ?, दारुकः प्राह-कुशलं, केवलमस्ति वङ्गाधिपतिर्यवनो नाम राजा, तेन चागत्य महाबलतया समन्तान्निरुद्धं नगरं, स्वीकृतो बहिर्विषयः, दापितानि स्थानकानि, भग्नः पर्याहारः, न चास्ति कश्चित्तन्निराकरणोपायः, ततः क्षीरसागरगम्भीरहृदयोऽपि मनागाकुलीभूतो देवः विषण्णा मन्त्रिणः उन्मनीभूता महत्तमाः त्रस्ता नागरकाः, किं बहुना ? न जाने किमत्र भविष्यतीति वितर्केण संजातं सर्वमपि देवशरणं |तन्नगरं, ततो मत्रिमहत्तमैः कृतपर्यालोचः स्थापितः सिद्धान्तः यदुत-नन्दिवर्धनकुमार एव यदि परमेनं यवनहतकमुत्सादयति, नापरः पुरुष इति, ततो मतिधनेनाभिहितं-ज्ञाप्यतामिदमेवंस्थितमेव देवाय, बुद्धिविशालेनाभिहितं-नैवेदं देवाय ज्ञापनीयं, मतिधनः प्राहकोऽत्र दोषः?, बुद्धिविशालेनाभिहितं-सुतवत्सलतया देवस्य कदाचिदेवंविधसङ्कटे नन्दिवर्धनागमनं न प्रतिभासते, तस्माद्देवस्याज्ञापनमेव श्रेयः, प्रज्ञाकरः प्राह–साधु साधूपपद्यमानं मत्रितं बुद्धिविशालेन, मतिधन ! किमत्रान्येन विकल्पेन ?, प्रेष्यतां कुमाराह्वानाय प्रच्छन्न दारुकदू है तोक्तेर्नगरे आगमोनन्दिवर्धनस्य अपि कुशलं ॥२६७॥ Jain Education iraltah For Private & Personal Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy