SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-अ. ॥२६३॥ भवितुमर्हति, एवं च वदति मयि सा कनकमजरी किश्चिद्वक्तुकामापि न वक्तुं शक्नुवती केवलं विलसद्दशनकिरणरजिताधरबिम्बा क| पोलमूलस्फुरितसूचितान्त:स्मिता वामचरणाश्रष्ठेन भूतलं लिखन्ती स्थितेषदधोमुखी मयाभिहितं-अलमत्र सुन्दरि ! विकल्पितेन, यतःहृदयाज्जीवितादेहात्सकाशादतिवल्लभा । नाथोऽत्र त्वां विहायान्यो, नास्ति मे भुवनत्रये ।। १ ।। अद्यप्रभृति निर्मिथ्यं, तव पद्मविलोचने!। क्रीतः सद्भावमूल्येन, दासोऽहं पादधावकः ॥ २ ॥ कठोरहृदयो नाहं, कठोरोऽत्र विधिः परम् । यो मे दर्शनविच्छेद, कुर्यात्ते वकप जे ॥ ३ ॥ एतच मामकं वाक्यमाकर्ण्य प्रीतमानसा । मया निरीक्षिता बाला, भजन्ती सा रसान्तरम् ॥ ४ ॥ कथम्-क्षणेनामृतसि|क्तव, क्षिप्तेव सुखसागरे। प्राप्तराज्याभिषेकेव, तोषादन्येव सा स्थिता ॥ ५ ॥ इतश्च मामन्विष्यमाणा नानास्थानेषु पर्यटन्ती प्राप्ता तमुद्देशं कपिजला दृष्टस्तेतलिः, अभिहितमनया-वागतं वयस्य !, क पुनः कुमार इति, तेतलिनाऽभिहितं-अत्र तरुलतागहने प्रविष्टः, ततश्वलिते द्वे अपि ते अस्मदभिमुखं दृष्टमावयोमिथुनं संजातो हर्षातिरेकः, कपिजलयाऽभिहितं-नमस्तस्मै भगवते देवाय येनेदं युगलमत्यन्तमनुरूपं संयोजितं, तेतलिः आह-कपिजले! नूनं रतिमन्मथयोरिवानयोोगेनेदमुवानमद्यैव यथार्थ संपन्नं, इतरथा व्यर्थकमेवास्य रतिमन्मथमित्यभिधानं पूर्वमासीत् , ततोऽस्मन्निकटदेशे प्राप्ते तेतलिकपिजले समुत्थिता ससंभ्रमेण कनकम खरी, कपिखलया:भिहितं-वत्से ! निषीदालं संभ्रमेण, ततोऽमृतपुजक इव तत्र दूर्वाविताने निषण्णानि मेहनिर्भरसहासविश्रम्भजल्पैः, स्थितानि वयं कि| यन्तमपि क्षणं, अत्रान्तरे समागतो योगन्धरो नाम कन्यान्तःपुरकचकी, तेन च विधाय मम प्रणामं सत्वरमाहूता कनकमजरी, कपि जलयाऽभिहितं-भद्र ! किमितीदमाकारणं?, योगन्धरः प्राह-श्रुतेयमपटुशरीरा रात्री देवेन, ततः प्रभाते स्वयमेव गवेषिता स्वस्थाने न चोपलब्धा ततः पर्याकुलीभूतो देवः, समादिष्टोऽहमनेन यथा यतः कुतश्चिद्वत्सां गृहीत्वा शीघ्रमागच्छेति, तदिदमाह्वानकारणं, तत योगन्धरकचक्या गमः ॥२६३॥ Jain Educational For Private & Personal Use Only Hainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy