________________
उपमितौ तृ. ३-अ.
॥२६३॥
भवितुमर्हति, एवं च वदति मयि सा कनकमजरी किश्चिद्वक्तुकामापि न वक्तुं शक्नुवती केवलं विलसद्दशनकिरणरजिताधरबिम्बा क| पोलमूलस्फुरितसूचितान्त:स्मिता वामचरणाश्रष्ठेन भूतलं लिखन्ती स्थितेषदधोमुखी मयाभिहितं-अलमत्र सुन्दरि ! विकल्पितेन, यतःहृदयाज्जीवितादेहात्सकाशादतिवल्लभा । नाथोऽत्र त्वां विहायान्यो, नास्ति मे भुवनत्रये ।। १ ।। अद्यप्रभृति निर्मिथ्यं, तव पद्मविलोचने!। क्रीतः सद्भावमूल्येन, दासोऽहं पादधावकः ॥ २ ॥ कठोरहृदयो नाहं, कठोरोऽत्र विधिः परम् । यो मे दर्शनविच्छेद, कुर्यात्ते वकप
जे ॥ ३ ॥ एतच मामकं वाक्यमाकर्ण्य प्रीतमानसा । मया निरीक्षिता बाला, भजन्ती सा रसान्तरम् ॥ ४ ॥ कथम्-क्षणेनामृतसि|क्तव, क्षिप्तेव सुखसागरे। प्राप्तराज्याभिषेकेव, तोषादन्येव सा स्थिता ॥ ५ ॥ इतश्च मामन्विष्यमाणा नानास्थानेषु पर्यटन्ती प्राप्ता तमुद्देशं कपिजला दृष्टस्तेतलिः, अभिहितमनया-वागतं वयस्य !, क पुनः कुमार इति, तेतलिनाऽभिहितं-अत्र तरुलतागहने प्रविष्टः, ततश्वलिते द्वे अपि ते अस्मदभिमुखं दृष्टमावयोमिथुनं संजातो हर्षातिरेकः, कपिजलयाऽभिहितं-नमस्तस्मै भगवते देवाय येनेदं युगलमत्यन्तमनुरूपं संयोजितं, तेतलिः आह-कपिजले! नूनं रतिमन्मथयोरिवानयोोगेनेदमुवानमद्यैव यथार्थ संपन्नं, इतरथा व्यर्थकमेवास्य रतिमन्मथमित्यभिधानं पूर्वमासीत् , ततोऽस्मन्निकटदेशे प्राप्ते तेतलिकपिजले समुत्थिता ससंभ्रमेण कनकम खरी, कपिखलया:भिहितं-वत्से ! निषीदालं संभ्रमेण, ततोऽमृतपुजक इव तत्र दूर्वाविताने निषण्णानि मेहनिर्भरसहासविश्रम्भजल्पैः, स्थितानि वयं कि| यन्तमपि क्षणं, अत्रान्तरे समागतो योगन्धरो नाम कन्यान्तःपुरकचकी, तेन च विधाय मम प्रणामं सत्वरमाहूता कनकमजरी, कपि
जलयाऽभिहितं-भद्र ! किमितीदमाकारणं?, योगन्धरः प्राह-श्रुतेयमपटुशरीरा रात्री देवेन, ततः प्रभाते स्वयमेव गवेषिता स्वस्थाने न चोपलब्धा ततः पर्याकुलीभूतो देवः, समादिष्टोऽहमनेन यथा यतः कुतश्चिद्वत्सां गृहीत्वा शीघ्रमागच्छेति, तदिदमाह्वानकारणं, तत
योगन्धरकचक्या
गमः
॥२६३॥
Jain Educational
For Private & Personal Use Only
Hainelibrary.org