________________
उपमितौ तृ. ३-प्र.
रतिमन्मथे |संबन्धः
॥२६२॥
ऽपि सत्त्वः, ततोऽभिहितं तया, हे भगवत्यो वनदेवताः! प्रतीतमेवेदं भवतीनां—यत्किल प्रतिपन्नं तेतलिना तस्य जनस्यानयनं दत्तोऽत्र रतिमन्मथे कानने सङ्केत इत्युपप्रलोभ्याहमिहानीता तया जरन्मार्जार्या, अधुना किलासौ जनो न दृश्यत इति तं गवेषयामीत्यभिधाय मामेकाकिनी विमुच्य सा न जाने कुत्रचिद्गता ?, तदेवं प्रतारिताऽहमिन्द्रजालरचनाचतुरया कपि जलया, तदलं मे जीवितेन प्रियविरहानलदग्धाया आप्तजनेनापि वञ्चिताया मन्दभाग्यायाः, केवलं प्रसादाद्भगवतीनां जन्मान्तरेऽपि स एव जनो भर्ता भूयादितिवदन्त्या व|ल्मीकमारुह्य निबद्धस्तमालतरुशाखायां पाशकः निर्मिता तत्र शिरोधरा प्रवृत्ता मोक्तुं शरीरं, अत्रान्तरे सुन्दरि! मा साहसं मा साह| समितिब्रुवाणः प्राप्तोऽहं वेगेन, धृतं वामभुजेनाश्लिष्य मध्यदेशे निपतच्छरीरकं, छिन्नो दक्षिणकरेणासिपुत्रिकया पाशकः आश्वासिता पवनदानेन, अभिहिता च-देवि! किमिदमसमञ्जसमारब्धं?, ननु स्वाधीनोऽयं जनस्ते वर्तते, तन्मुश्च विषादं, ततः सा तथैव स्थिता घूर्णमानविलोलविलोचना मां निरीक्षमाणा, तत्क्षणमनेकरससंभारगर्भनिर्भरं सुपरिस्फुटं मदनचिह्न योगिनामपि वाग्गोचरातीतं स्वरूपं धारयन्ती मया विलोकिता, कथं ?, एकाकिनीतिभीता स एवायमिति सहर्षा कुत इति साशङ्का स्वरूपोऽयमिति ससाध्वसा स्वयमागतेति| सलज्जा विजने प्राप्तेति दिक्षु निक्षिप्ततरलतारिका दत्तसङ्केतेति विश्वस्ता दृष्टमिदमनेन मदीयमाचरणमिति सवैलक्ष्या लक्ष्मीरिव क्षी| रोदमन्थनोत्थितगात्रा विशदखेदजलप्लावितदेहतया कदम्बकुसुममालिकेव परिस्फुटपुलकोद्भेदसुन्दरतया पवनप्रेरिततरुम जरीव प्रकम्पमा-1 नसर्वाङ्गतया आनन्दसागरमवगाहमाना स्तिमितनिष्पन्दमन्दलोचनतया ततः साऽनभिव्यक्तैरक्षरैर्मुच मुच कठोरहृदय! मुश्च न कार्यमनेन जनेन जनस्येति वदन्ती मदीयभुजमध्यावहिर्मुखं निष्पतितुमारब्धा, ततो निवेशिता मया ललितकोमले दूर्वाविताने, निषण्णः स्वयमभ्यर्ण एव तदभिमुखः, ततोऽभिहितं मया-सुन्दरि! मुञ्च लजां परित्यज कोपं न खल्वाज्ञाकारी किङ्करजनोऽयं कोपस्य गोचरो
|॥२६२॥
For Private
Personel Use Only
R
w
.jainelibrary.org