________________
उपमिती तृ. ३-प्र.
॥२६
॥
| कनकशेखरेणोक्तं-चारु मत्रितं तातेन, तात एवोचितं जानीते, ततो दातव्यैवेति स्थापितस्ताभ्यां सिद्धान्तः, समुत्थिताऽहं तातो- | कनकमञ्ज|त्सङ्गात् प्रवृत्ता चेहागन्तुं चिन्तितं च मया अहो मे धन्यता अहो मे अनुकूलता देवस्य अहो सुपर्यालोचितकारिता तातस्य अहो विनयः रीवाचाद| कनकशेखरस्य भविष्यत्येवं प्रियभगिन्या सह मम यावज्जीवमवियोगः ललिष्यावहे नानाविधं, एवं च चिन्तयन्या ममाविर्भूतः स्फुट- सत्ता नन्दि
बहिलिङ्गो हर्पः तदिदं मे हर्षकारणमिति, मलयमर्याभिहितं-कपिजले! पश्य कालहीनो निमित्तस्य संवादः, मयोक्तं-किमाश्चर्य !, वर्धनाय | यतो दैवीयमुत्पातुका भाषा भवति, केवलं वत्से! कनकमञ्जरि ! मुञ्चेदानी विषादं अवलम्बस्व धैर्य सिद्धमधुना नः समीहितं व्यपगतं | भवत्या दाहज्वरकारणं प्रतिपादिताऽसि देवेन हृदयनन्दनाय नन्दिवर्धनाय, ततः संजाताश्वासाऽपि हृदये कुटिलशीलतया मदनस्य विधाय ममाभिमुखं विषमभृकुटिं कनकमञ्जर्याऽभिहितं आः भवतु मातः! किमेवमलीकवचनैर्मा प्रतारयसे शिरोऽपि ममाधुना स्फुटति भग्नमनेनासंबद्धप्रलापेन, मलयमञ्जर्याभिहितं-वत्से! मा मैवं वोचः सत्यमेवेदं नान्यथा वत्सया संभावनीयं, ततः कुतो ममेयन्ति |भाग्यानीति शनैर्वदन्ती स्थिताधोमुखी कनकमजरी, ततस्तां निजपतिभक्तस्त्रीकथानिकाकथनव्याजेन विनोदयन्तीभिरस्माभिरतिवाहिता रजनी, न चाद्याप्युपशाम्यति तस्याः परिदहनं, मया चिन्तितं यावत्क्रमेण संपत्स्यते नन्दिवर्धनदर्शनं तावन्मरिष्यतीयं राजदुहिता, अतः पश्यामि तावत्तेतलिं वल्लभोऽसौ कुमारस्य शक्नोति तं विज्ञापयितुं कदाचित्ततः संपद्यतेऽस्याः परित्राणमद्यैव कुमारदर्शनेनेतिविचिन्त्य समागताऽहं त्वत्समीपे, तदिदं निमित्तमासाद्य तस्यां प्रभवति मीनकेतन इत्येतदाकर्ण्य वयस्यः प्रमाणं, मयाऽभिहितं यद्येवं ततो यद्यपि वश्यन्द्रियो देवो महासत्त्वतया च तृणमिव बैणमाकलयति तथाप्येवं विज्ञपयामि यथाऽभ्युद्धरति निजदर्शनेन राजदुहितरं, केवलं रतिमन्मथे ॥२६ ॥ कानने भवतीभिः स्थातव्यं ततो महाप्रसादोऽनुगृहीताऽस्मीति वदन्ती पतिता मच्चरणयोः कपिजला गता स्वभवनं, अहमपीहागतः, त
CCCCCCCCCC
Jain Education
a
l
For Private & Personal Use Only
miaainelibrary.org