SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥ २५८ ॥ Jain Educatio कनकमञ्जर्या इयमेवंविधाऽवस्था संजातेति ?, कन्दलिकयाऽभिहितं - अम्ब ! न सम्यग् लक्षयामि केवलं यतः प्रभृति राजमार्गेऽवतीर्णो नन्दिवर्धनकुमारः पतितो दृष्टिगोचरे भर्तृदारिकायाः तत आरभ्येयं प्रमुदितेव लब्धरत्नेव अमृतसिक्तेव महाभ्युदयप्राप्तेव अनाख्येयं किमपि रसान्तरमनुभवन्ती मया दृष्टाऽऽसीत्, यदा त्वतीतोऽसौ दृष्टिगोचरात् तदेयमीदृशीमवस्थां प्राप्तेति, ततस्तदाकर्ण्य मरिष्यतीयमकृतप्रतीकारेति संचिन्त्य शोकविह्वलतया विहितो मया हाहारवः, तदाकर्णनेन समागता मलयमञ्जरी, ततः सापि किमेतत्कपिञ्जले ! किमेतदिति वदन्ती निरीक्ष्य कनकमञ्जरीं विलपितुमारब्धा, ततो बृहत्तमतया दोहलस्य जननीवल्लभतया हृदयस्य स्वभ्यस्ततया विनयस्य मनाक् संजातचेतना संपन्ना कनकमञ्जरी मोटितमनया शरीरकं प्रवृत्ता जृम्भितुं, ततस्तां स्वकीयोत्सङ्गे निधाय मलयमञ्जर्याऽभिहितं - वत्से ! कनकमञ्जरि ! किं ते शरीरके बाधते ?, कनकम खर्याऽभिहितं— अम्ब! नाहमन्यत्किश्विलक्षयामि केवलं दाहज्वरो मे शरीरं बाधते, ततो यावदाकुला वयं कुर्मस्तस्याः शरीरस्य मलयजरसेन सेचनं प्रेरयामः कर्पूरजलविन्दुवर्षाणि तालवृन्तानि प्रयच्छामोऽङ्गे हिमसेकशीतला जलार्द्रा : (काषायीः) समर्पयामो मुहुर्मुहुः कर्पूरपूरितानि नागवल्लीदलवीटकानि समाचरामोऽन्यामप्यनेकाकारां शीतक्रियां तावद्गतोऽस्तं वासरेश्वरः समुद्गतो निशीथिनीनाथः परिप्लावितं विमलचन्द्रिकया नभस्तलं, ततो मयाऽभिहिता मलयमञ्जरी - स्वामिनि ! सघर्ममिदं स्थानं अतः प्रकाशे निःसार्यतां राजदुहिता, तयाऽभिहितं — एवं क्रियतां, ततो हिमगिरिविशालशिलाविभ्रमे सुधाधवलप्रकाशहर्म्यतले कथश्विद्धार्यमाणा नीता कनकमञ्जरी विरचितं तत्रातिशीतलनलिनीदलपल्लवशयनीयं तत्र तां निवेश्य विहितानि भुजयुगले मृणालनालवलयानि स्थापितो वक्षस्थले सिन्दुवारहारः समुपनीताः स्पर्शनार्थं प्रक्षेपमात्रेण महासरोवरस्यापि स्त्यानभावसम्पादकाः शीतवीर्या म हामणयः, लगति च तत्र प्रदेशे स्वत एव बलिनामपि रोमहर्षदन्तवीणासञ्जननो गन्धवाहनः, ततो मलयमञ्जर्याऽभिहितं वत्से ! कन tional For Private & Personal Use Only र्या कनकमञ्जउपचा रारम्भः ।। २५८ ॥ v.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy